________________
૧૩
सूत्र-४
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ सम्प्रति भाष्येण सूत्रार्थं स्पष्टयन्नाह-सम्यगित्यादि सम्यगिति शब्दस्यार्थमाचष्टे, विधानत इति, सभेदं विज्ञाय योगं, तत्र काययोगस्यौदारिकवैक्रियाहारकतैजसकार्मणभेदाः सम्भविनः, वाग्योगस्य सत्यामृषादयः, मनसः सावद्यसंकल्पादयः ज्ञात्वा इति, आगमतो यथावदवबुध्य अभ्युपेत्य सम्यग्दर्शनपूर्वकमिति प्रतिपद्य च भावत एवमेते योगाः परिणताः कर्मबन्धाय एवं च कर्मनिर्जराय, सम्यग्दर्शनपूर्वकमित्यभ्युपगमक्रियाविशेषणं, प्रशमसंवेगनिर्वेदास्तिक्यानुकम्पाभिव्यक्तिलक्षणं सम्यग्दर्शनं तत् पूर्वं यस्याभ्युपगमस्येति, त्रिविधस्य योगस्येति, मूलभेदाख्यानमुत्तरभेदानां मूलानतिलङ्घित्वात् परिग्रहः, निग्रहः स्ववशे व्यवस्थापन, स्वातन्त्र्यप्रतिषेधेन मुक्तिमार्गानुकूलपरिणामो गुप्तिः संरक्षणं भयानकात् कर्मबन्धशत्रोः, त्रैविध्यप्रतिपादनायाह-कायगुप्तिर्वाग्गुप्तिर्मनोगुप्तिरिति । कायस्य गुप्तिः संरक्षणमुन्मार्गगतेरागमतः, तथाऽयं संरक्षितः कायो नात्मानमुपहन्ति, एवं वाङ्मनोगुप्त्योरपि व्याख्या, इतिशब्दोऽवधारणार्थः, त्रिविध एव मूलभेदतो योगः, तत्र तेषु योगेषु निग्रहीतव्येषु काययोगनिग्रह एव तावदुच्यते, शयनम् आगमोक्तो निद्रामोक्षकालः, स च रात्रावेव, न दिवा अन्यत्र ग्लानादेः, तत्रापि क्षणदायाः प्रथमे यामे अतिक्रान्ते गुरुमापृच्छ्य प्रमाणयुक्तायां वसतावेकस्य साधोर्हस्तत्रयप्रमिते भूप्रदेशे सभाजनस्य च यत्रावस्थानं सकलावकाशपूरणं च सा प्रमाणयुक्ता, तत्र प्रमृज्य स्वावकाशं प्रत्यवेक्ष्य संहत्यास्तीर्य संस्तरणपट्टकद्वयमूर्ध्वमधश्च कायं प्रमृज्य सपादं मुखवस्त्रिकारजोहृतिभ्यामनुज्ञापितसंस्तारकावस्थानः कृतसामायिकनमस्कृतिः वामबाहूपधान आकुञ्चितजानुकः कृकवाकुवद्वियति प्रसारितजङ्घो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः सङ्कोचसमये प्रमार्जितसंदंशकमुद्वर्तनकाले च मुखवस्त्रिकाप्रमृष्टकायो नात्यन्ततीव्रनिद्रः शयीत, आसनं-निवेशनं यत्र भूप्रदेशे विवक्षितं तं प्रत्यवेक्ष्य चक्षुषा