SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૨ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ प्रपद्यन्ते ?, तत्र रागद्वेषपरिणतेरातरौद्राध्यवसायात् मनो निवर्त्य निराकृतैहिकामुष्मिकविषयाभिलाषस्य मनो गुप्तत्वादेव न रागादिप्रत्ययं कास्रोष्यति, यच्च वाचिकमसंवृतस्यासत्प्रलापिनोऽप्यप्रियवचनादिहेतुकं कर्माभिधीयते (? संबध्यते) न तद् वाग्व्यापारविरतस्य यथाविहितवाग्भाषिणो, वाचापि गुप्तत्वादेव, तथा कायिकमनिभृतस्य धावनवल्गनाप्रत्युपेक्षिताप्रमार्जितावनिप्रदेशचक्रमणद्रव्यान्तरादाननिक्षेपणादिनिमित्तमात्मनि नाश्लिष्यति कायोत्सर्गभाजः परित्यक्तहिंसादिदोषविषयक्रियाकस्य वा समयविहितक्रियानुष्ठायिनः, कायगुप्तत्वात्, एवं सम्यग्योगत्रयनिगृहीतिलक्षणास्तिस्रो गुप्तयः संवरस्य करणीभवन्ति, समितयोऽपि गुप्तिरूपा एव प्रायश्चेष्टालक्षणत्वात्, चेष्टा च कायवाङ्मनोव्यापारः तोर्यादाननिक्षेपोच्चारादित्यागसमितयस्तिस्रः कायव्यापारान्तर्भूताः, मनोव्यापारानुयायिनी चैषणासमितिः, वाग्व्यापारलक्षणा भाषासमितिः, यत्तु पार्थक्येनोपादानं तन्मन्दधियां विवेकेन सुखप्रतिपत्त्यर्थं, प्रथमव्रतमृषावादादिप्रपञ्चवत्, तथा क्रोधमानमायालोभानां सभेदानां क्षमामार्दवार्जवशौचैर्निगृहीतत्वात् संवरावाप्तिः, सत्यत्यागाकिञ्चन्यब्रह्मचर्याणि चारित्रानुरोधीनि, संयमोऽपि सप्तदशप्रकारः, कश्चित् प्रथमव्रतान्तःपाती कश्चिदुत्तरगुणान्तर्भूतः, तपो द्वादशविधमुत्तरगुणान्तःपात्येव, अनित्याशरणादिचिन्तनमपि संवृण्वतो हेतुभूतमुत्तरगुणानुयायि च, परीषहा अपि यथास्वमापतिताः सम्यगधिसहनेन जीयमानाः संवरमाविष्कुर्वन्ति, तथा हिंसानृतवचनपरस्वहरणाब्रह्मचर्यपरिग्रहयामिनीभोजनानि संश्लेषविशेषाहितकलुषस्य काश्रवनिमित्तानि, निरोधे सति विरमणभाजो न जातुचिदापतति तन्निमित्तकं कम्र्मेति, आधाकादिपरिभोगनिमित्तं च काश्रवणं तत्परित्यागे सति नैवास्ति, सर्वं चैतदारेकादिदोषजम्बालविमुक्तसम्यग्दर्शनपीठप्रतिबन्धं गुप्त्यादि चारित्रान्तमतः सति तत्त्वार्थश्रद्धानलक्षणे सम्यक्त्वे न भवति मिथ्या
SR No.022493
Book TitleTattvarthadhigam Sutram Part 09
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages330
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy