________________
४
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
सूत्र - २
સંવરના ઉપાયો—
स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥९-२॥ सूत्रार्थ - गुप्ति, समिति, धर्म, अनुप्रेक्षा, परिषहभ्य अने यारित्रथी संवर थाय छे. (९-२)
भाष्यं - स एष संवर एभिर्गुप्त्यादिभिरभ्युपायैर्भवति ॥९-२॥ ભાષ્યાર્થ— તે આ સંવર આ ગુપ્તિ આદિ ઉપાયોથી થાય છે. (૯-૨) टीका - स गुप्तीत्यादि, स इत्यनेन सर्वनाम्ना प्रक्रान्तं संवरं परामृशति, गुप्यतेऽनयेति गुप्तिः, संरक्ष्यतेऽनयेत्यर्थः, संवृण्वतो हि गुप्त्यादयः करणीभवन्ति, सम्यग्गतिहेतुत्वात् समितयो गतिरिति सकलक्रियोपलक्षणं, सर्वज्ञप्रणीतज्ञानानुसारिण्यश्चेष्टाः संवरमादधति, नरकादिकुगतिप्रपातधारणाद्धर्म्मः-क्षमादिदशलक्षणकः, अनुप्रेक्षणम्-अनुचिन्तनमनुप्रेक्षा, अनुप्रेक्ष्यन्ते - भाव्यन्त इति वाऽनुप्रेक्षाः, तादृशानुचिन्तनेन तादृशीभिर्वा वासनाभिः संवरः सुलभो भवति, समन्तादापतिताः, क्षुत्पिपासादयः सह्यन्त इति परीषहाः, परीषहा इति कः शब्दसंस्कार: ? न तावत् पचाद्यच्, कर्त्तरि विहितत्वात्, न कर्म्मसाधनो, घञ्वृद्धिप्रसङ्गात् पुंसि संज्ञायां घ (पा.अ.३.पा.३.सू.११८) इति चेन्न, तस्य करणाधिकरणयोविधानात्, उच्यते, "कृत्यलुटो बहुलम् " (पा.अ. ३. पा. ३. सू. ११३) इति वचनात् कर्म्मण्येव घञ् प्रत्ययः, 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' (पा.अ.६.पा.३.सू.१२२) इतिबहुलवचनाद् घञि चान्यत्र च दीर्घत्वं शिष्टप्रयोगानुसरणात्, परीषहाणां जयो- न्यक्करणमभिभवः परीषहजयः, चर्यते तदिति चारित्रं, पृषोदरादित्वाद्वा अष्टविधकर्म्मचयरिक्तीकरणाच्चारित्रं-सामायिकादिपञ्चभेदं, गुप्त्यादीनां चारित्रान्तानां द्वन्द्वः, एभिर्गुप्त्यादिभिः करणभूतैः संवरोऽवाप्यत इति । सम्प्रति भाष्यमनुश्रियते प्रस्तुतसंवरसम्बन्धनार्थस्तच्छब्दः, स संवरः आश्रवनिरोधलक्षणः, एष इत्यनेन मनसि व्यवस्थापितः, एभिर्गुप्त्यादिभिः करणभूतैरभ्युपायैर्भवतिजायते स्वरूपं प्रतिलभत इतियावत्, कथं पुनः करणरूपं गुप्त्यादयः