________________
૨૮૨ श्री तत्त्वार्थाधिरामसूत्र अध्याय-८
સૂત્ર-૫૦ અકષાય સ્થાનો છે. એ અકષાય સ્થાનોનો નિગ્રંથ સ્વીકાર કરે છે. તે પણ અસંખ્ય સ્થાનો સુધી જઈને અટકી જાય છે. આની ઉપર એક જ સ્થાન જઇને નિર્ગથ સ્નાતક મોક્ષને પામે છે. એમના સંયમવિશુદ્ધિના स्थानी अनंतानंत होय छे.(४-५०)
આ પ્રમાણે તત્ત્વાર્થાધિગમ ગ્રંથમાં સ્વોપજ્ઞ ભાષ્યથી યુક્ત નવમો અધ્યાય પૂર્ણ થયો.
टीका- संयमादयोऽष्टौ स्थानान्ताः कृतद्वन्द्वाः विकल्पशब्देन सह समस्यन्ते, संयमादीनां विकल्पा एते इत्यादि भाष्यं, एते इत्युक्तलक्षणाः पुलाकादयः पञ्च निर्ग्रन्थाः एभिः संयमादिभिरष्टाभिरनुगमविकल्पैः अनुगमनमनुसरणमनुगमोऽनुयोगद्वाराण्यर्थार्पणमुखानि तद्विकल्पैः-तद्भेदैः साध्या भवन्ति, तद्यथेत्यादिना तान् संयमादिविकल्पानुपन्यस्यति, संयम इति प्रथमोऽनुगमविकल्पः, पुलाकादीनां पञ्चानां निर्ग्रन्थानां कः कस्मिन् संयमे सामायिकादौ भवति- वर्तत ?, इति अज्ञप्रश्नः उच्यते, यो यस्मिन् संयमादौ भवति स तथा भण्यते, पुलाकबकुशप्रतिसेवनाकुशीलास्त्रयो निर्ग्रन्थाः संयमद्वये वर्तन्ते, सामायिकसंयमे छेदोपस्थाप्यसंयमे च, तत्र पुलाकः पञ्चभेदः ज्ञानदर्शनचरणलिङ्गसूक्ष्माख्यः, स्खलितादिभिर्ज्ञानपुलाकः कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाकः यथोक्तलिङ्गाधिकग्रहणाल्लिङ्गपुलाकः किञ्चित्प्रमादात् सूक्ष्मपुलाकः, एष पञ्चप्रकारोऽपि संयमद्वये वर्तते, बकुशोऽपि आभोगानाभोगसंवृत्तासंवृत्तसूक्ष्मबकुशभेदात् पञ्चप्रकारः, तत्र सञ्चिन्त्यकारी आभोगबकुशः, सहसाकारी अनाभोगबकुशः, प्रच्छन्नकारी संवृत्तबकुशः, प्रकटकारी असंवृत्तबकुशः, किञ्चित्प्रमादी सूक्ष्मबकुशः, प्रतिसेवना-कुशीलोऽपि ज्ञानदर्शनचरणलिङ्गसूक्ष्मभेदेन पञ्चप्रकारः, ज्ञानाद्यतिचार-प्रतिसेवनादिति प्रतिसेवना, प्रतिगता सेवना प्रतिसेवना, क्रियायोगात्यये सत्युपसर्गसंज्ञाऽभावात् षत्वाभावोऽतिसिक्तवत्, अन्ये