________________
૨૭૨ श्री तत्वाषिरामसूत्र सध्याय-
सूत्र-४८ उदीर्यन्ते उदयमुपनीयन्ते किञ्चिदेव कारणमासाद्योदयं गच्छन्ति ते कषायकुशीलाः ।
सम्प्रति निर्ग्रन्थनिरूपणार्थमाह-ये वीतरागच्छद्मस्था इत्यादि उपशमितक्षपितमोहजाला विगताशेषरागद्वेषमोहत्वात् एकादशद्वादशगुणस्थानवर्तिनः ते वीतरागच्छद्मस्थाः, छद्म-आवरणं तत्र स्थिताः सावरणज्ञानाः छद्मस्था, ईर्यापथप्राप्ताः अकषायत्वादुपशान्तक्षीणकषायाश्च एकसमयावस्थायीर्यापथं कर्म बध्नन्ति, इर्या व्यापारो योग इति पर्यायाः, तस्य व्यापारस्य विषयः पन्थाः, स च संयमः सप्तदशप्रकारः, एनमेवार्थं स्पष्टतरमाचष्टे-योगसंयमप्राप्ता इत्यर्थः, योगेन-विशिष्टक्रियया विशिष्टमेव संयमं यथाख्याताख्यं प्राप्ता इत्यर्थः, यावत्ते विकीर्णमोहग्रन्थय इत्यर्थः ।
सयोगा इत्यादिना स्नातकनिरूपणं करोति । योगः कायादिचेष्टा, सह योगेन सयोगाः त्रयोदशगुणस्थानवर्त्तिनो निरस्तघातिकर्मचतुष्टयाः केवलिनः स्नातकाः, प्रक्षालितसकलघातिमलपटलाः इत्यर्थः, शैलेशीप्रतिपन्नाश्चेत्यनेनायोगकेवलिन उपात्ताः, ते च केवलिनो विहृत्य कञ्चित् कालं ततोऽकृत-समुद्घाताः समुद्घाताद्वा निवृत्ताः क्रमेण योगान्निरुन्धन्ति, स चोक्त एव क्रमः प्राक्, निरुद्धयोगाश्च व्युपरतक्रियाऽनिवर्तिना ध्यानेन शेषान् कम्`शान् क्षपयन्ति, यथोक्तं
"ध्यानं ह्यभिसन्धानं ध्यानेन च कर्मणो भवति मोक्षः । ध्यानेन ततः क्षपयति कर्माणि स पञ्चमात्रेण ॥१॥
पञ्च मात्रा यत्र ध्यान इति, एवंविधावस्थाः शैलेशीप्रतिपन्ना उच्यन्ते, तदा चेमाः प्रकृतीः क्षपयन्ति स्पर्शरसवर्णगन्धाऽनादेयनिर्माणदेहनामानि । पञ्च संहननाङ्गोपाङ्गानि तथा संस्थाननामानि ॥१॥ नृसुरगतिप्रायोग्ये सुरगत्युपघातमगुरुलघुता च । उच्छासपराघातं पर्याप्तशुभाशुभानि तथा ॥२॥