________________
૨૭૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૪૯ टीका- पुलाकादयः पञ्चान्वर्थसंज्ञका निर्ग्रन्थाः स्वामिनः, तद्विवरणार्थमाह-पुलाको बकुशः कुशीलो निर्ग्रन्थः स्नातक इति एते पञ्च निर्ग्रन्थविशेषा भेदा भवन्ति, निर्ग्रन्थानामिति ग्रन्थः-काष्टप्रकारं मिथ्यात्वाविरतिदुष्प्रणिहितयोगाश्च, तज्जयाय प्रवृत्ता निर्गच्छद्ग्रन्था निर्ग्रन्थाः, धर्मोपकरणादृते परित्यक्तबाह्याभ्यन्तरोपधयो निर्ग्रन्थाः ।
पुलाकादिस्वरूपनिरूपणायाह-तत्र सततमित्यादि तत्र तेषु पञ्चसु निर्ग्रन्थेषु पुलाकास्तावदेवंविधाः, पुलाको निःसार इति रूढं, लोके पलञ्जिस्तन्दुलकणशून्यः पुलाकः, एवं निर्ग्रन्थोऽपि, लब्धिमुत्पन्नां तपः श्रुताभ्यामुपजीवन् सकलसंयमगलनात् पलञ्जिरूपं निःसारमात्मानं करोति, ज्ञानदर्शनचरणानि च सारस्तदपगमान्निःसारः, जिनप्रणीतादागमाद्धेतुतः सर्वदैवाप्रतिपातिनः, आगमश्च सम्यग्दर्शनमूले ज्ञानचरणे निर्वाणहेतुरित्यस्मात् अपरिभ्रष्टाः, श्रद्धानानुसारेण क्रियानुष्ठायिनो लब्धिमुपजीवन्तो निर्ग्रन्थाः पुलाका भवन्ति, उपजीवन्तश्च निःसारमात्रं कुर्वन्तीति ग्राह्यं, सततमप्रमादिन इत्यपरे पठन्ति, जिनोक्तादागमाद्धेतुभूतात् मुक्तिसाधनेषु न प्रमाद्यन्ति जातुचिदिति ।
बकुशा इति शबलपर्यायाः, शबलो वर्णव्यतिकरः, क्वचित् कृष्णः क्वचिद्रक्त एक एव पटः, एवमयमपि निर्ग्रन्थः सातिचारत्वाच्चरणं शबलयति, विशुद्ध्यविशुद्धिव्यतिकीर्णस्वभावं करोति, स च द्विधाशरीरोपकरणभेदेन, तदाह वृत्तिकारः-नैर्ग्रन्थ्यं प्रति प्रस्थिता इत्यादि, निर्ग्रन्थस्य भावो नैथ्यं-अष्टाविंशतिविधमोहनीयक्षयः तत् प्रति प्रस्थिताः-प्रवृत्तास्तदभिमुखाः तत्क्षयकाङ्क्षिणः शरीरं अङ्गोपाङ्गसङ्घातः उपकारित्वादुपकरणं-वस्त्रादि तद्विषयां विभूषां-अलङ्कृतिमनुवर्तन्ते तच्छीलाश्चेति, शरीरे तावदनागुप्त्यव्यतिरेकेण करचरणवदनप्रक्षालनमक्षिकर्णनासिकावयवेभ्यो दूषिकामलाद्यपनयनंदन्तवनभक्षणं केशसंस्कार च विभूषार्थमाचरन् शरीरबकुशो भवति, उपकरणबकुशस्तु अकाल एव