________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
दण्डकपाटकरेचकक्रियाजगत्पूरणं चतुःसमयं । क्रमशो निर्वृतिरपि च तथैव प्रोक्ता चतुःसमया ॥४॥
विकसनसङ्कोचनधर्मत्वाज्जीवस्य तत्तथा सिद्धं । यद्वदनन्तं वीर्यं तस्य ज्ञानं च गतितिमिरं ॥ ५ ॥ शेषे संयोगितायाः समये समये संहरत्यसङ्ख्येयान् । भावान् स्थितेरनन्तान् भागान् स शुभानुभावस्य ॥६॥ स ततो योगनिरोधं करोति लेश्यानिरोधमभिकाङ्क्षन् । समयस्थितिं च बन्धं योगनिमित्तं स निरुरुत्सन् ॥७॥ समये समये कर्म्मादाने सति सन्ततेर्न मोक्षः स्यात् । यद्यपि हि विमुच्यन्ते स्थितिक्षयात् पूर्वकर्माणि ॥८॥ नोकर्म्मणो हि वीर्यं योगद्रव्येण भवति जीवस्य । तस्यावस्थानेन तु सिद्धः समयस्थितिर्बन्धः ॥९॥ बादरतत्वात् पूर्वं वाङ्मनसी बादरे स निरुणद्धि क्रमेणैव । सालम्बनाय करणं हि तदिष्टं तत्र वीर्यवतां ॥१०॥ सत्यप्यनन्तवीर्यत्वे वा बादरतनुमपि निरुणद्धि ततः । सूक्ष्मेण काययोगेन निरुध्यते सूक्ष्मो योगः ॥११॥ सति बादरे च योगे न हि धावन् वेपथुं निवारयति । नाशयति काययोगं स्थूलं सोऽपूर्वफड्डकीकृत्य ॥१२॥ शेषस्य काययोगस्य तथा कृतीश्च स करोति सूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे । भवति ततः स सूक्ष्मक्रियस्तदाकृतिगतयोगः ॥१३॥ तमपि स योगं सूक्ष्मं निरुरुत्सन् सर्वपर्यायानुगतं । ध्यानं सूक्ष्मक्रियमप्रतिपात्युपयाति वितमस्कम् ॥१४॥
सूत्र-४१
૨૪૭