________________
૨૨૫
સૂત્ર-૩૫
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ श्चेति अविरतसम्यग्दृष्टिः, नाणुव्रतधारी, औपशमिकक्षायिकक्षायोपशमिकभेदात्त्रिविधं सम्यग्दर्शनं, तद्योगात् सम्यग्दृष्टिः, देशविरतः संयतासंयतः, हिंसादिभ्यो देशतो विरतत्वात् संयतः, अन्यतः सावधयोगादनिवृत्तिरिति स एवासंयतः, सोऽविरतसम्यग्दृष्टिस्थानादसङ्ख्येयानि विशोधिस्थानानि गत्वा अप्रत्याख्यानावरणकषायेषु क्षयोपशमं नीतेषु प्रत्याख्यानावरणकषायोदयात् सर्वप्रत्याख्यानाभावाद्देशविरतः सञ्जायते, इदानीं प्रमत्तसंयतः, तस्मादसङ्ख्येयानि विशोधिस्थानानि आरोहतः तृतीयकषायेषु प्रकर्षाप्रकर्षात् क्षयोपशमं गतेषु सर्वसावद्ययोगप्रत्याख्यानं विरतिर्भवति, उक्तं च
"देशविरतेरपि ततः स्थानाद्विशोधिमुत्तमां प्राप्य । स्थानान्तराणि पूर्वविधिनैव स यात्यनेकानि ॥१॥ क्षपयत्युपशमयति वा प्रत्याख्यानावृतः कषायांस्तान् । स ततो येन भवेत्तस्य विरमणे सर्वतोऽपि मतिः ॥२॥ छेदोपस्थाप्यं वाऽऽवृत्तं सामायिकं चरित्रं वा । स ततो लभते प्रत्याख्यानावरणक्षयोपशमात् ॥३॥" तस्येदानी महाव्रतगुप्तिसमितियुक्तस्य कषायनिग्रहादिन्द्रियदमाच्च निरुद्धाश्रवस्य निर्वेदादिवैराग्यभावनाभिः स्थिरीकृतसंवेगस्य यथोक्तद्वादशप्रकारतपोयोगात् सञ्चितानि कर्माणि निर्जरयतः सूत्रानुसाराद्यतमानस्यापि मोहनीयकर्मानुभावात् सङ्क्लेशाद्वा विशोध्या वा आन्तर्मुहूर्तात् परावर्त्तते, ततः सज्वलनकषायोदयादिन्द्रियविकथाप्रमादाद्योगदुष्प्रणिधानात्कुशलेष्वनादराच्च प्रमत्तसंयतो भवति, तस्मात् सङ्क्लेशाद्धायां वर्तमानः प्रमत्तसंयतः, एते च त्रयोऽपि आर्तध्यायिनो भवन्ति । आर्त्तध्यानस्वामिन इत्यर्थः, एतदातध्यानमविरतादीनामेव भवति, नाप्रमत्तसंयतानामित्यर्थः, तदेतदातँ नातिसङ्क्लिष्टं कापोतनीलकृष्णलेश्यानुयायि द्रष्टव्यमिति ॥९-३५॥