________________
૧૮૪
શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૨૨ પ્રાયશ્ચિત્તના ભેદોનું વર્ણન आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारो
पस्थापनानि ॥९-२२॥ सूत्रार्थ-भादोयन, प्रतिभए, तमय, विवे, व्युत्स, त५,छे, परिहार भने ७५स्थापन म प्रायश्चित्तन। (न) भेहोछे. (८-२२)
भाष्यं-प्रायश्चित्तं नवभेदम्। तद्यथा- आलोचनं प्रतिक्रमणं आलोचनप्रतिक्रमणे विवेकः, व्युत्सर्गः, तपः छेदः परिहारः उपस्थापनमिति ।
आलोचनं प्रकटनं प्रकाशनमाख्यानं प्रादुष्करणमित्यनर्थान्तरम् ।
प्रतिक्रमणं मिथ्यादुष्कृतसंप्रयुक्तः प्रत्यवमर्शः, प्रत्याख्यानं कायोत्सर्गकरणं च ।
एतदुभयमालोचनप्रतिक्रमणे । विवेको विवेचनं विशोधनं प्रत्युपेक्षणमित्यनर्थान्तरम् । स एष संसक्तानपानोपकरणादिषु भवति ।
व्युत्सर्गः प्रतिष्ठापनमित्यनर्थान्तरम् । एषोऽप्यनेषणीयान्नपानोपकरणादिष्वशङ्कनीयविवेकेषु च भवति ।
तपो बाह्यमनशनादि प्रकीर्णं चानेकविधं चन्द्रप्रतिमादि ।
छेदोऽपवर्तनमपहार इत्यनर्थान्तरम् । स प्रव्रज्यादिवसपक्षमाससंवत्सराणामन्यतमानाम् भवति ।
परिहारो मासिकादिः । उपस्थापनं पुनर्दीक्षणं पुनश्चरणं पुनर्वतारोपणमित्यनर्थान्तरम् ।
तदेतन्नवविधं प्रायश्चित्तं देशं कालं शक्ति संहननं संयमविराधनां च कायेन्द्रियजातिगुणोत्कर्षकृतां च प्राप्य विशुद्ध्यर्थं यथार्ह दीयते चाचर्यते च ।
चिती संज्ञानविशुद्ध्योर्धातुः । तस्य चित्तमिति भवति निष्ठान्तमौणादिकं च ।