________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૧૯
सम्यगवमौदर्यमेवं सर्वत्र वृत्तिपरिसङ्ख्यानादिष्वपि किं पुनर्विशेषेण व्यावर्त्यते ?, नृपशत्रुतस्करकृताहारनिरोधादि, तथा पंक्तिनिमित्तमाजीवादिहेतोरुपहतभावदोषस्य न हि संयमरक्षणं न च कर्म्मनिर्जरत्यतः सम्यग्ग्रहणं, यस्तु प्रवचनोदितं श्राद्धतया स्वसामर्थ्यापेक्षो द्रव्यक्षेत्रकालभावाभिज्ञः क्रियाश्चाहापयन्नहोरात्राभ्यन्तरकार्याः करोत्यनशनादितपः स कर्म्मनिर्जराभाग्भवतीत्येवमर्थं अनुवर्त्यते सम्यग्ग्रहणं बालतप:प्रतिषेधार्थं च, संयमः सप्तदशभेद उक्तः, चारित्रं वा पञ्चप्रकारं संयमः, तत्परिपालनाय रसत्यागादि सम्यक्तपो भवति, कर्म्म-ज्ञानावरणादि तस्य निर्जरा आत्मप्रदेशेभ्यः परिशटनं यथोक्तं यद्वद्विशोषणादुपचितो वेत्यादि, तपश्च प्राय: सर्वसमयेषु प्रतीतं शुभाशुभकर्म्मक्षयायेत्येवं कर्म्मनिर्जरणार्थं चेत्युक्तं चशब्दः समुच्चयार्थः तत्रानशनमादावेव, आहारगवेषणे यत्नवानपि संयतः केनचिदतीचारकलङ्केन युज्यत एवेति तत्परिहारायोपन्यस्तं सप्रपञ्चं चतुर्थषष्ठाष्टमादीत्यादिना, अशनंआहारस्तत्परित्यागोऽनशनं तद् द्विधा - इत्वरं यावज्जीविकं च तत्रेत्वरं नमस्कारसहितादि, चतुर्थभक्तादिषण्मासपर्यवसानमित्वरमनशनं भगवतो महावीरस्य तीर्थे, यावज्जीविकं च त्रिविधं - पादपोपगमनं इङ्गिनी भक्तप्रत्याख्यानमिति, तत्र पादपोपगमनं द्विधा - सव्याघातमव्याघातं च, सतो ह्यायुषो यदुपक्रान्तिः क्रियते समुपजातव्याधिना उत्पन्नमहावेदनेन वा तत् सव्याघातं, निर्व्याघातं तु प्रव्रज्याशिक्षापदादिक्रमेण जराजर्जरितशरीरः करोति, यदुपहितचतुर्विधाहारप्रत्याख्यानो निर्जन्तुकं स्थण्डिलमाश्रित्य पादप इवैकेन पार्श्वेन निपतत्यपरिस्पन्दस्तावदास्ते प्रशस्तध्यानव्यापृतान्त:करणः यावदुत्क्रान्तप्राणस्तदेतत् पादपोपगमनाख्यमनशनं १, इंगिनी - श्रुतविहितः क्रियाविशेषस्तद्विशिष्टं मरणं १. सम्पूर्णं पद्यं यथा
यद्वद् विशोषणादुपचितोऽपि यत्नेन जीर्यते दोषः । तद्वत् कर्मोपचितं निर्जरयति संवृत्तस्तपसा ॥
૧૬૬
-