________________
૧૬૪ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૧૯ सूत्रार्थ- अनशन, सवभौर्य, वृत्तिपरिसंध्यान, २सपरित्या, વિવિક્તશય્યાસન અને કાયક્લેશ એમ છ પ્રકારનો બાહ્ય તપછે. (૯-૧૯)
भाष्यं- अनशनं अवमौदर्यं वृत्तिपरिसङ्ख्यानं रसपरित्यागः विविक्तशय्याऽऽसनता कायक्लेश इत्येतत्षड्विधं बाह्यं तपः । 'सम्यग्योगनिग्रहो गुप्तिः' इत्यतः प्रभृति सम्यगित्यनुवर्तते । संयमरक्षणार्थं कर्मनिर्जरार्थं च चतुर्थषष्ठाष्टमादि सम्यगनशनं तपः ॥
अवमौदर्यम् । अवमं न्यूनं नाम । अवममुदरमस्य अवमोदरः, अवमोदरस्य भावः अवमौदर्यं । उत्कृष्टावकृष्टौ वर्जयित्वा मध्यमेन कवलेन त्रिविधमवमौदर्यं भवति । तद्यथा- अल्पाहारावमौदर्य, उपार्धावमौदर्य, प्रमाणप्राप्तात्किञ्चिदूनावमौदर्यमिति । कवलपरिसङ्ख्यानं च प्राग्द्वात्रिंशद्भ्यः कवलेभ्यः ।
वृत्तिपरिसङ्ख्यानमनेकविधम् । तद्यथा- उत्क्षिप्तनिक्षिप्तान्तप्रान्तचर्यादीनां सक्तुकुल्माषौदनादीनां चान्यतममभिगृह्यावशेषस्य प्रत्याख्यानम् ।
रसपरित्यागोऽनेकविधः । तद्यथा- मद्यमांसमधुनवनीतादीनां रसविकृतीनां प्रत्याख्यानं विरसरूक्षाद्यभिग्रहश्च ।
विविक्तशय्यासनता नाम एकान्तेऽनाबाधेऽसंसक्ते स्त्रीपशुपण्डकविवर्जिते शून्यागारदेवकुलसभापर्वतगुहादीनामन्यतमे समाध्यर्थं संलीनता ।
कायक्लेशोऽनेकविधः । तद्यथा- स्थानवीरासनोत्कटुकासनैकपार्श्वदण्डायतशयनातापनाप्रावृतादीनि । सम्यक्प्रयुक्तानि बाह्यं तपः । अस्मात्षड्विधादपि बाह्यात्तपसः सङ्गत्यागशरीरलाघवेन्द्रियविजयसंयमरक्षणकर्मनिर्जरा भवन्ति ॥९-१९॥ |
भाष्यार्थ- अनशन, भवभौर्य, वृत्तिपरिसंध्यान, २सपरित्या, વિવિક્તશય્યાસનતા અને કાયક્લેશ આ પ્રમાણે આ છ પ્રકારનો બાહ્ય त५ छ. सम्यग्योगनिग्रहो गुप्तिः (म.८ सू.४) मे सूत्रथा प्रारंभी