________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
૧૫૭
चानन्तानुर्बान्धनश्चतुरोऽपि समकमेव शमयति अन्तर्मुहूर्तेन, ततो दर्शनत्रिकं, ततोऽनुदीर्णं पुमानारोहन् नपुंसकवेदं ततः स्त्रीवेदं, योषिदारोहन्ती प्राग् नपुंसकवेदं, ततः पुरुषवेदं, तृतीयप्रकृतिरपि आरोहन् प्राक् स्त्रीवेदं, ततः पुंवेदं, ततोऽपि हास्यादिषट्कं ततो नपुंसकवेदं, ततोऽप्रत्याख्यानानां प्रत्याख्यानावरणानां च युगपदेव द्वौ क्रोधौ, पश्चात् सञ्ज्वलनकोधान्तरितौ शमयति पुनः द्वौ मानौ, पश्चात् सञ्ज्वलनमानं, पुनर्द्वे माये, ततः सञ्ज्वलनमायां पुनर्द्वी लोभौ पश्चात् सञ्ज्वलनलोभं सख्येयानि खण्डानि कृत्वा क्रमेण चोपशमय्य पश्चिमखण्डमसङ्ख्येयानि खण्डानि करोति, ततः प्रतिसमयमसङ्ख्येयभागमुपशमयन् समस्तमन्तर्मुहूर्त्तेन शमयति, तांश्चासङ्ख्येयान् भागान् शमयन् सूक्ष्मसम्परायसंयमीभवति, अत्यन्तविशुद्धाध्यवसायो दशमगुणस्थानवर्ती श्रेण्यारोहे वर्धमानविशुद्धाध्यवसायस्य विशुद्धमवतरतः संक्लिष्टं, सूक्ष्म: - श्लक्ष्णावयवः कषायः - संसारभ्रान्तिहेतुर्यत्र तत् सूक्ष्मसम्परायं, स चोपशान्तकषायोऽपि स्वल्पप्रत्ययलाभात् दवदग्धाञ्जनद्रुमवदुदकसेचनादिप्रत्ययलाभादङ्कुरादिरूपेण भश्मच्छन्नाग्निवद्वा, वाय्विन्धनादिप्रत्ययतः स्वरूपमुपदर्शयति तद्वदसौ मुखवस्त्रिकादिषु ममत्वसमीरणेन सन्धुक्षमाणः कषायाग्निश्चरणेन्धनमामूलतो दहन् प्रच्याव्यते, प्रतिविशिष्टाध्यवसायादिति, क्षायिकी तु श्रेणिरनन्तानुबन्धिनो मिथ्यात्वमिश्रसम्यक्त्वानि अप्रत्याख्यानप्रत्याख्यानावरणे नपुंसकस्त्रीवेदौ हास्यादिषट्कं पुंवेदं सज्वलनाश्च, अस्यास्त्वारोहकः अविरतदेशप्रमत्ताप्रमत्ताविरतानामन्यतमो विशुध्यमानाध्यवसायः । स चानन्तानुबन्धिनो युगपदेव क्षपयन्त्यन्तर्मुहूर्तेन, ततः क्रमेण दर्शनत्रिकं, ततः प्रत्याख्यानाप्रत्याख्यानावरणे युगपदेव क्षपयितुमारभते, विमध्यभागे चैषामिमाः षोडश प्रकृतीः क्षपयति, नरकतिर्यग्गती एतदानुपूर्व्यं एकद्वित्रिचतुरिन्द्रियजातयः आतपोद्योतस्थावरसाधारणसूक्ष्मनामानि ततो
સૂત્ર-૧૮
"