________________
૧૫૬ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૧૮ येषामस्ति ते निर्विष्टकायिकाः तत्सहयोगात् तेनाकारेण तपोऽनुष्ठानद्वारेण परिभुक्तः कायो यैरिति, परिभुक्ततादृग्विधतपसो निर्विष्टकायिका इत्यर्थः, परिहारविशुद्धिकं च तपः प्रतिपन्नानां नवको गच्छः, तत्र परिहारिणश्चत्वारः अनुपरिहारिणोऽपि चत्वारः, कल्पस्थित एकः, वाचनाचार्य इत्यर्थः, सर्वे च ते श्रुताद्यतिशयसम्पन्नाः तथापि रुच्या (? रूढ्या) कल्पस्थित एकः कश्चिदवस्थाप्यते, तत्र ये कालभेदेन विहितं तपोऽनुतिष्ठन्ति ते परिहारिणः, नियताचाम्लभक्तास्त्वनुपरिहारिणः, तेषामेवाभिसरास्तपोग्लानानां परिहारिणां सहायके वर्तन्ते, कायस्थितोऽपि नियताचाम्लभक्त एव, तच्च तपः परिहारिणां ग्रीष्मे चतुर्थषष्ठाष्टमभक्तलक्षणं जघन्यमध्यमोत्कृष्टक्रमेणैव शिशिरकाले षष्ठाष्टमदशमानि जघन्यमध्यमोत्कृष्टानि, वर्षास्वष्टमदशमद्वादशभक्तानि जघन्यमध्यमोत्कृष्टानि, पारणकालेऽप्याचाम्लमेव पारयन्ति, उक्तविधानं तपः षण्मासं कृत्वा परिहारिणोऽनुपरिहारित्वं प्रतिपद्यन्ते, अनुपरिहारिणोऽपि परिहारिणो भवन्ति, तेऽपि षण्मासान् विदधते तपः, पश्चात् कल्पस्थित एकाक्येव षण्मासावधिकं परिहारतपः प्रतिपद्यते, तस्य चैकोऽनुपरिहारीभवति, तन्मध्येऽपरश्चैकः कल्पस्थित इति, एवमेष परिहारविशुद्धः संयमोऽष्टादशभिर्मासैः परिसमाप्तिमुपयाति, परिसमाप्ते तु तस्मिन् पुनस्तदेव केचित् परिहारतपः प्रतिपद्यन्ते स्वशक्त्यपेक्षया केचिद्वा जिनकल्पमपरे तु गच्छमेव प्रविशन्तीति, परिहारविशुद्धिकाश्च स्थितकल्प एव प्रथमचरमतीर्थयोरेव, न मध्यतीर्थेष्विति ३ ।
सूक्ष्मसम्परायसंयमस्तु श्रेणिमारोहतः प्रपततो वा भवति, श्रेणिरपि द्विप्रकारा-औपशमिकी क्षायिकी च, तत्रौपशमिकी अनन्तानुबन्धिनो मिथ्यात्वादित्रयं नपुंसकस्त्रीवेदौ हास्यादिषट्कं पुंवेदः अप्रत्याख्यानप्रत्याख्यानावरणाः सञ्चलनाश्चेति, अस्याश्च प्रारम्भकोऽप्रमत्तसंयतः, अपरे तु ब्रुवते-अविरतदेशप्रमत्ताप्रमत्तविरतानामन्यतमः प्रारभते, स