________________
सूत्र
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
निर्जरा वेदना विपाक इत्यनर्थान्तरम् । स द्विविधोऽबुद्धिपूर्वः कुशलमूलश्च । तत्र नरकादिषु कर्मफलविपाकोदयोऽबुद्धिपूर्वकस्तमवद्यतोऽनुचिन्तयेदकुशलानुबन्ध इति ।
तप:परीषहजयकृतः कुशलमूलः । तं गुणतोऽनुचिन्तयेत् । शुभानुबन्धो निरनुबन्धो वेति । एवमनुचिन्तयन् कर्मनिर्जरणायैव घटत इति निर्जरानुप्रेक्षा ॥९॥
पञ्चास्तिकायात्मकं विविधपरिणाममुत्पत्तिस्थित्यन्यतानुग्रहप्रलययुक्तं लोकं चित्रस्वभावमनुचिन्तयेत् । एवं ह्यस्य चिन्तयतस्तत्त्वज्ञानविशुद्धिर्भवतीति लोकानुप्रेक्षा ॥१०॥
अनादौ संसारे नरकादिषु तेषु भवग्रहणेष्वनन्तकृत्वः परिवर्तमानस्य जन्तोर्विविधदुःखाभिहतस्य मिथ्यादर्शनाद्युपहतमतेर्ज्ञानदर्शनावरणमोहान्तरायोदयाभिभूतस्य, सम्यग्दर्शनादिविशुद्धो बोधिदुर्लभो भवतीत्यनुचिन्तयेत् । एवं ह्यस्य बोधिदुर्लभत्वमनुचिन्तयतो बोधि प्राप्य प्रमादो न भवतीति बोधिदुर्लभत्वानुप्रेक्षा ॥ ११॥
૯૧
सम्यग्दर्शनद्वारः पञ्चमहाव्रतसाधनो द्वादशाङ्गोपदिष्टतत्त्वो गुप्त्यादिविशुद्धव्यवस्थान: संसारनिर्वाहको निःश्रेयसप्रापको भगवता परमर्षिणाऽर्हताऽहो व्याख्यातो धर्म इत्येवमनुचिन्तयेत् । एवं ह्यस्य धर्मस्वाख्यातत्वमनुचिन्तयतो मार्गाच्यवने तदनुष्ठाने च व्यवस्थानं भवतीति धर्मस्वाख्यातत्वानुचिन्तनानुप्रेक्षा ॥१२॥९-७॥
भाष्यार्थ - खा बार अनुप्रेक्षाओ छे. तेमां बाह्य अभ्यंतर शरीरશય્યા-આસન-વસ્ત્ર વગેરે દ્રવ્યો અને સર્વસંયોગો અનિત્ય છે એમ ચિંતન કરે. આ પ્રમાણે વિચારતા સાધુને તે શરીર આદિમાં રાગ થતો નથી, તેમના વિયોગથી મને દુઃખ ન થાઓ. આ પ્રમાણે અનિત્ય અનુપ્રેક્ષા છે.
જેવી રીતે નિરાશ્રય અને જનવિરહિત વનસ્થલીના પાછળના ભાગમાં બળવાન, ક્ષુધાને પામેલા અને માંસની ઇચ્છા કરનારા સિંહ