________________
सूत्र-७
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ टीकावतरणिका- एवं परमविशुद्धलक्षणे धर्मे व्यवस्थितः पुनरप्यात्मदोषजुगुप्सार्थं जगद् द्वादशभिः स्वतत्त्वैविभज्य अनुचिन्तयेदित्याह
ટીકાવતરણિકાÁ– આ પ્રમાણે પરમવિશુદ્ધ ધર્મમાં રહેલો સાધુ ફરી પણ આત્મદોષની જુગુપ્સા માટે જગતનો બાર સ્વરૂપોથી વિભાગ કરીને ચિંતન કરે એમ કહે છે–
અનુપ્રેક્ષાઓનું વર્ણનअनित्याशरणसंसारैकत्वान्यत्वाश्रवसंवरनिर्जरालोकबोधि
दुर्लभधर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥९-७॥ सूत्रार्थ- भनित्य, अश२९५, संसार, मेडत्व, अन्यत्प, मशुथि, આગ્નવ, સંવર, નિર્જરા, લોકસ્વરૂપ, બોધિદુર્લભ અને ધર્મસ્વાખ્યાત એમ पार प्रकारे तत्वार्थतन मे १२ रनी अनुप्रेक्षा भावनाछे. (८-७)
भाष्यं- एता द्वादशानुप्रेक्षाः तत्र बाह्याभ्यन्तराणि शरीरशय्यासनवस्रादीनि द्रव्याणि सर्वसंयोगाश्चानित्या इत्यनुचिन्तयेत् । एवं ह्यस्य चिन्तयतः तेष्वभिष्वङ्गो न भवति मा भून्मे तद्वियोगजं दुःखमित्यनित्यानुप्रेक्षा ॥१॥ __ यथा निराश्रये जनविरहिते वनस्थलीपृष्ठे बलवता क्षुत्परिगतेनामिषैषिणा सिंहेनाभ्याहतस्य मृगशिशोः शरणं न विद्यते, एवं जन्मजरामरणव्याधिप्रियविप्रयोगाप्रियसंप्रयोगेप्सितालाभदारिद्रयदौर्भाग्यदौर्मनस्यमरणादिसमुत्थेन दुःखेनाभ्याहतस्य जन्तोः संसारे शरणं न विद्यत इति चिन्तयेत् । एवं ह्यस्य चिन्तयतो नित्यमशरणोऽस्मीति नित्योद्विग्नस्य सांसारिकेषु भावेष्वनभिष्वङ्गो भवति । अर्हच्छासनोक्त एव विधौ घटते, तद्धि परं शरणमित्यशरणानुप्रेक्षा ॥२॥
अनादौ संसारे नरकतिर्यग्योनिमनुष्यामरभवग्रहणेषु चक्रवत्परिवर्तमानस्य जन्तोः सर्व एव जन्तवः स्वजनाः परजना वा । न हि स्वजनपरजनयोर्व्यवस्था विद्यते । माता हि भूत्वा भगिनी भार्या दुहिता