________________
सूत्र-७
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ तस्य च विपाको अशोभन: अशुचिरेव काय इत्येवं भावयेद्, एवं ह्यस्य भावयतः संवेगो वैराग्यं च भवतीति,
'तत्र संवेगो नामे'त्यादि तत्रेति चानयोः संवेगवैराग्ययोः संवेगस्तावदित्थंलक्षणः, नामशब्दो वाक्यालङ्कारार्थः, भीरु:-भीतिशीलः संसारो-नारकतिर्यङ्मनुष्यामरभवप्रपञ्चः सकलदुःखमूलः संसाराद् भीरुः संसारभीरुस्तद्भावः संसारभीरुत्वम्, उद्विजते हि प्रेक्षापूर्वकारी दुःखात्, न जातुचित्तत्प्रवणो भवति, आरम्भाः सूनास्थानानि प्राण्युपघातकराणि व्यापादनसङ्कल्पपरितापजननप्राणापहारलक्षणाः सर्व एवारम्भाश्चेतनाचेतनवस्तुस्पर्शिनो, मू»विशेषाः परिग्रहाः तेष्वारम्भपरिग्रहेषु दोषदर्शनादरतिः ऐहिकामुष्मिकप्रत्यवाया दोषाः तदर्शनात्तदुपलब्धेर्युःखम् उद्वेगोऽप्रीतिररतिः, तद्वतश्च धर्मे बहुमानो धार्मिकेषु च, धर्म:-क्षमादिदशलक्षणकस्तदासेविनो धार्मिकास्तेषु बहुमानो धर्मे च, चकारः समुच्चयार्थः, बहुमानशब्दार्थनिरूपणायाह-'धर्मश्रवण'इत्यादि प्राक्तावद् धर्मजिज्ञासा ततस्तदभिज्ञप्रच्छनं पश्चाच्छ्वणम्-आदरेणाकर्णनं ततः स्मरणानुष्ठाने, एष खलु धर्मविषये बहुमान आदरः-चित्तप्रसादः धार्मिकदर्शने चेति धार्मिकाः-सम्यक्त्वज्ञानक्रियानुष्ठायिनः साधवोऽगारिणश्च तदर्शने च बहुमानश्चित्तप्रमोदपूर्वकोऽभ्युत्थानवन्दनासनदानभक्तपानवस्त्रपात्रोपकरणप्रदानानुव्रजनलक्षणो भक्तिविशेषश्चित्तप्रसादः संवेगस्याभिव्यञ्जकः, उत्तरोत्तरगुणप्रतिपत्तौ च श्रद्धेति संवेगमूलगुणास्तावत् सम्यक्त्वादयोऽगारानगारिणोऽवश्यंतया सन्ति तेषु सत्सु मौलेषु गुणेषत्तरोत्तरा ये गुणाः प्रकारवत्तया क्रमेणावस्थिताः पिण्डोपधिशय्यादिशुद्धिलक्षणाः समितिभावनातपःप्रतिमाऽभिग्रहादयस्तेषूत्तरोत्तरेषु स्वशक्त्यपेक्षा प्रतिपत्तिः-अभ्युपगमो-ऽनुष्ठानं तद्विषया श्रद्धा-अभिलाष इच्छेत्यनर्थान्तरम्, एवं तावत् संवेगः। 'वैराग्यं नामे'त्यादि विरागभावो वैराग्यं, नामेत्यलङ्कारार्थं, शरीरस्य भोगोऽ