________________
६०
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
सूत्र
१५६) त्यादि, तथा जगत् जीवाजीवद्रव्याणि तत्स्वभावः परिणामः, तेषामेव जगच्छब्दवाच्यानां द्रव्याणां जीवपुद्गलादीनां अनाद्यादिमत्परिणामयुक्ता इति, कश्चिदनादिपरिणामो जीवस्यासङ्ख्येयप्रदेशवत्त्वचेतनत्वज्ञानत्वादिः कश्चिदादिमान् देवत्वादिः, पुद्गलद्रव्यस्यापि मूर्त्तिमत्त्वरूपादिमत्त्वादिरनादिः, आदिमान् घटपटादिलक्षणः, धर्माधर्मयोः लोकाकाशव्यापित्वादिरनादिः, आदिमान् गतिस्थितिपरिणतद्रव्यजनितः, लोकाकाशस्यामूर्त्तत्वासङ्ख्येयप्रदेशत्वादिरनादिः, आदिमानवगाहकद्रव्यापेक्षः, एभिर्युक्ताः प्रादुर्भावादयो जगत्स्वभावाः, अनाद्यादिमत्परिणामग्रहणेन प्रादुर्भावादयो विशेष्यन्ते, उत्पादविगमध्रौव्याणीत्यर्थः, अनादिना परिणामेन विशिष्टो यः प्रादुर्भावः - आत्मलाभो वस्तुनः, तथा सन्निवेशः, आदिमत्परिणामविशिष्टश्च प्रादुर्भावः-पर्यायान्तरोत्पादः, तिरोभावस्तु सन्तानरूपेणावस्थितो वै श्रसिको विनाश एव, अनादिलक्षणा स्थितिर्थ्रोव्यमनादिपरिणामः, अन्यत्वेति सर्वद्रव्याणां परस्परं भेदपरिणामोऽनादिः, आदिमदनादिरनुग्रहः - परस्परोपकारादिलक्षणो जीवानां विनाशस्तु प्रायोगिक : आदिमान् परिणामः, एवमेष जगत्स्वभाव: पुनः पुनरालोच्यमानः संवेगाय सम्पद्यते, 'कायस्वभाव' इत्यादि कायस्य स्वभावो जन्मप्रभृत्यनित्यतां - विनश्वरत्वं बालकुमारयौवनमध्यमस्थविरावस्थारूपं प्रतिलभते, अतः परिणामानित्यतां शरीरस्य भावयेद् यावदायुषः परिसमाप्तिः, ततः क्रोधेनाग्निना वा सारमेयशकुन्तसम्पातेन वा वातातपशोषणेन वा परमाणुपर्यवसानेन विभक्तोऽनित्य इति व्यपदिश्यते, अपरं कायस्वभावो दुःखहेतुत्वं बाधालक्षणं दुःखं सा च बाधा यावच्छरीरं तावदपि दुःखोपभोगः, तथा निःसारता कायस्वभावः त्वग्मांसादिपटलभेदेनोद्वेष्ट्यमानेऽपि न किञ्चित् सारमुपलभ्यते, एवं भावयतः शरीरेऽभिष्वङ्गो न भवति, तथाऽशुचित्वं कायस्वभावः, यत: मूलकारणं असृक् शुक्रं च, उत्तरकारणं आहारः,