________________
સૂત્ર-૨
श्री तत्वापिगमसूत्र अध्याय-७ व्यवच्छिन्दन्नाह-एकदेशविरतिरणुव्रतमिति सकलप्राणिगणविषया हिंसा, तस्याश्च विरतिः न सर्वस्याः, किन्तु देशत इति, एकदेशग्रहणेनैव स्पष्टयति-न सर्वस्मात् प्राणव्यपरोपणाद् विरतिः, किन्त्वेकदेशात्, स्थूलादित्यर्थः, स्थूलसूक्ष्मप्राणिभेदात् सङ्कल्पजारम्भजभेदाद्वा स्थूलसूक्ष्मत्वं, सा चैकदेशाद्विरतिरणुव्रतं स्तोकत्वादुच्यते, स्तोकमल्पमण्विति पर्यायाः, स्वल्पविषयमणुव्रतं, स्थूलात् प्राणातिपाताद् विरमामि, स्थूलान्मृषावादादिति, कूटसाक्ष्यदानादिः स्थूलः, नर्मादिप्रयोगतः सूक्ष्मः, स्थूलादत्तादानादिति, हठहरणादि स्थूलं यत्रैहिकामुष्मिकाश्चौर्यदोषा गृहिणां, सूक्ष्म परिहासतः, परकीयपरिलघुतृणकाष्ठादिग्रहणं वा, स्थूलान्मैथुनाद् विरमामीति, स्थूलत्वमेकदेशजनितमत्र प्रतीयते, स्वदारसन्तोषः परदारनिवृत्तिा, स्वदारसन्तुष्टः शेषयोषितो मातृवदनुपश्यति, परदाराभिगमात् निवृत्तः परपरिगृहीतयोषितः परिहरति, अपरिगृहीतवेश्यामभिगच्छति, तथेच्छापरिमाणादन्यतो विरमामीति, केचित् महाव्रतानुयानात् स्वल्पव्रतत्वाच्चाणुव्रतमिति व्याचक्षते । सम्प्रति महाव्रतव्याचिख्यासया सर्वतो विरतिर्महाव्रतमिति आह-सर्वत इति, सर्वस्मात्-सूक्ष्मात् स्थूलाच्च प्राणव्यपरोपणाद् विरमामीति, एवं शेषाण्यपि सर्वतो वाच्यानि, महाविषयत्वान्महाव्रतमित्येतानि पञ्च महाव्रतानि भवन्ति, सम्यक्त्वयुक्तानि मूलगुणवाच्यानि, ननु च यथैव मृषादिनिवृत्तिरहिंसाव्रतपालनार्थत्वात् मूलगुणा एवं निशीथभोजनविरतिरपि मूलगुणः स्यात्, उच्यते, अहिंसाव्रतपालनार्थत्वादिति समितिभिरनैकान्तः, अपिच-महाव्रतधारिण एव तन्मूलगुणः, तद्विरहितस्य यस्मात् मूलगुणा एव अपरिपूर्णाः स्युरतो मूलगुणग्रहणे तद्ग्रहणमाक्षिप्तं, यथा च सर्वव्रतोपकारिरात्र्यभोजनं न तथोपवासादि, अतस्तन्मूलगुणो महाव्रतिनः शेषमुत्तरगुणः, अणुव्रतधारिणस्तूत्तरगुणो निशाभोजनविरतिराहारादित्यागादुपवासवत् तप एव तदिति प्रतीतं, कः पुनर्दोषः