________________
૨૩૬
श्री तवाषिरामसूत्र अध्याय-७ સૂત્ર-૩૧ भाष्यं- अन्नादेव्यजातस्य सचित्ते निक्षेपः, सचित्तपिधानं, परस्येदमिति परव्यपदेशः, मात्सर्यं, कालातिक्रम इत्येते पञ्चातिथिसंविभागस्यातिचारा भवन्ति ॥७-३१॥
ભાષ્યાર્થ—અન્નવગેરે દ્રવ્યસમૂહનો સચિત્તમાં નિક્ષેપ, સચિત્તપિધાન, આ બીજાનું છે એમ પરવ્યપદેશ, માત્સર્ય અને કાલાતિક્રમ આ પ્રમાણે આ પાંચ અતિથિસંવિભાગવતના અતિચારો છે. (૭-૩૧).
टीका- अन्नादेरित्यादि भाष्यं, अन्नम्-ओदनखाद्यकादि, चतुर्विध आहारो वाऽशनादिः, तस्य सचित्तेषु व्रीहिगोधूमशाल्यादिषु निक्षेपः, तच्चान्नादि, कया बुद्ध्या निक्षिपति ?, अदानबुद्ध्या, एतज्जानात्यसौसचित्ते निक्षिप्ते न गृह्णते साधवः, इत्यतो देयं चोपस्थाप्यते नाददते साधव इति लाभोऽयं ममेति, सचित्तपिधानमिति सचित्तेन पिधानंस्थगनं सूरणकन्दत्रपुष्यादिना, तत्रापि तथाविधयैव बुद्ध्या सचित्तेन स्थगयति । परव्यपदेश इति, साधोः पौषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्ते-परकीयमिदं, नास्माकीनमतो न ददामीति, न चैष परमार्थः, परमार्थतस्तु तदीयमेव तत्, अथवा परस्य-अन्यस्येदमस्तीति तत्र गत्वा मार्गयत यूयमिति, मार्गितः सन् कुप्यति, सदपि मार्गितं न ददाति, अथवा तेन तावद् द्रमकेण मार्गितेन दत्तं किमहं ततोऽपि न्यून इति मात्सर्येण ददाति, परोन्नतिवैमनस्यं च मात्सर्यं, कषायदूषितेन वा चित्तेन ददतो मात्सर्यमिति, कालातिक्रम इति, उचितो यो भिक्षाकालः साधूनां तमतिक्रम्य अनागतं वा भुङ्क्ते पौषधोपवासी, स च कालातिक्रमो ग्रहीतुरप्रीतिकरः, अप्रस्तावदानं चेत्यतिचारः, इत्येते पञ्चातिथिसंविभागस्यातिचारा भवन्तीति ॥७-३१॥
2ीर्थ- अन्नादेः इत्यादि भाष्य छे. अन्न भेटटी मत भने 40% વગેરે અથવા અશન વગેરે ચાર પ્રકારનો આહાર. તેને સચિત્ત ડાંગર,