________________
૨૧૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૨૩ भ्यामब्रह्मणो निवर्तते, स्वदारसन्तोषप्रतिपत्त्या परपरिगृहीतदारानभिगमनेन वा, स्वदारासेवनमेव प्रथमोऽभ्युपैति, शेषान्निवर्त्तते, द्वितीयस्तु परपरिगृहीतदारसेवनान्निवर्त्तते, न स्वदारेभ्यो न वाऽपरिगृहीतवेश्यादिभ्यः, तयोर्यथासम्भवमतिचाराः स्वव्रतानुसारेणाभ्यूह्याः, तत्र स्वापत्यव्यतिरिक्तमन्यापत्यं परशब्देनोच्यते, तस्य विवाहकरणं-विवाहक्रिया कन्याफललिप्सया वा स्नेहसम्बन्धेन वा इति, इत्वरपरिगृहीतागमनं प्रतिपुरुषगमनशीला इत्वरी-वेश्याऽनेकपुरुषगामिनी भवति, तस्यै च यदाऽन्येन कञ्चित् कालमभिगृह्य भाटी दत्ता भवति, तावन्तं कालमगम्याऽसौ निवृत्तपरदारस्य भवति, इत्वरी चासौ परिगृहीता चेति पुंवद्भावः, गमनम्-अभिगमो मैथुनासेवनम्, अथवा इत्वरं-स्तोकमल्पं परिगृहीतागमनं चेति, अपरिगृहीतागमनमिति वेश्यास्वैरिणीप्रोषितभर्तृकादिरनाथा अपरिगृहीता, तदभिगममाचरतः स्वदारसन्तुष्टस्यातिचारो, न तु निवृत्तपरदारस्य, अनङ्ग:-कामः कर्मोदयात् पुंसः स्त्रीनपुंसकपुरुषासेवनेच्छा हस्तकादीच्छा वा, योषितोऽपि योषितपुरुषासेवनेच्छा हस्तकांदीच्छा वा, नपुंसकस्य पुरुषस्त्रीसेवनेच्छा हस्तकादीच्छा वा, स एवंविधोऽभिप्रायो मोहोदयादुद्भूतः काम उच्यते, नान्यः कश्चित् कामः, तेन तत्र क्रीडा-रमणमनङ्गक्रीडा, आहायः काष्ठपुस्तफलमृत्तिकाचादिघटितप्रजननैः कृतकृत्योऽपि स्वलिङ्गेन भूयः मृनात्येवावाच्यप्रदेशं योषितां, तथा केशाकर्षणप्रहारदानदन्तनखकदर्थनाप्रहारैर्मोहनीयकावेशात् किल क्रीडति तथाप्रकारं कामी, सर्वेषामनङ्गक्रीडा बलवति रागे प्रसूयते, तीव्रकामाभिनिवेश इति तीव्र:-प्रकर्षप्राप्तः कामेऽभिनिवेशः तीव्रकामाभिनिवेशस्तावत्पर्यन्तं तच्चित्तता परित्यक्तान्यसकलव्यापारस्य तदध्यवसायिता मुखपोषोपस्थकक्षान्तरेष्वप्यतृप्ततया प्रक्षिप्य लिङ्गमास्ते मृत इव महती वेलां, निश्चलः चटकैरिव मुहुर्मुहुश्चटकायामारोहति योषिति, व्याजीकरणानि चोपयुङ्क्ते जातकलि