________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
સૂત્ર-૧૩
टीकावतरणिका- अत्राहेत्यादिना सम्बन्धमुपपादयति, अत्र हिंसादिलक्षणपरिसमाप्त्यवसरे पर आह- गृह्णीमस्तावदित्यादि, गृह्णीम इत्यवगच्छामः, इदं हिंसादिविरतयो व्रतानीति, तावच्छब्दः क्रमावद्योतनार्थः, क्रमश्चायं प्राग्व्रतपरिज्ञानं पश्चात् तत्सम्बन्धमात्रादेव किं व्रतित्वमथ प्रतिविशिष्टसम्बन्धाद् व्रतित्वमिति संदिहानस्य प्रश्नः, ननु च यस्योक्तलक्षणानि तानि सन्ति स व्रती, किमास्पदः सन्देहः ?, उच्यते विशिष्ट एव सम्बन्धे व्रतित्वं नात्र मत्वर्थीयः सम्बन्धसामान्यमात्रविवक्षायां किं तर्हि ?, विशिष्टस्य सम्बन्धिनो व्रताभिसम्बन्धाद् व्रतित्वं, तथा चाह
૧૩૬
“भूमनिन्दाप्रशंसासु, नित्ययोगातिशायने ।
संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः ॥१॥"
इति प्रशंसायामिनिः प्रत्ययो भूमार्थेऽतिशायने वा, तत्र प्रशंसार्थे मिथ्यादर्शननिदानमायाशल्यादिरहितत्वात् प्रशस्तस्य सम्बन्धिनो व्रताभिसम्बन्धाद् व्रतित्वम्, अतिशायनार्थेऽप्ययमेव, मिथ्यादर्शनाद्यपगमात् प्रकृष्टस्य सम्बन्धिनो व्रताभिसम्बन्धात् व्रतित्वम्, भूमार्थेऽपि पूर्वोक्तभावनाभिः स्थिरीकृतचेतसोऽपायावद्यदर्शिनो विचक्षणस्य सर्वसंसारिक्रियाकलापदुःखबुद्ध्या निरुत्सुकविषयकुतूहलस्य मैत्रीप्रमोदकारुण्यमाध्यस्थ्यप्रणिधानापादितसौहार्दस्य जन्ममरणपरिखेदितमतेरवलोकितशरीरस्वभावस्य मुक्ति प्रत्यवहितचेतसो मायानिदानमिथ्यादर्शनशल्यशून्यस्य व्रताभिसम्बन्धाद् व्रतित्वमिति चेतसि सन्निवेश्याचार्यः अत्रोच्यत इत्याह
टीडअवतरशिडार्थ - अत्राह ईत्याद्दिथी भोगणना सूत्रनी साथै संबंधने ઘટાવે છે. અહીં=હિંસાદિના લક્ષણની સમાપ્તિના અવસરે બીજો કહે छे. 'गृह्णीमस्तावद्' इत्यादि, हिंसाद्दिथी विरति से व्रतो छे खेम समे સ્વીકારીએ છીએ=જાણીએ છીએ.
"