________________
સૂત્ર-૧૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
११७ परैरनतिसृष्टं यद्, यच्च शास्त्रे विगर्हितम् । तत् सर्वं न ग्रहीतव्यं, दन्तनिष्फोटनाद्यपि ॥१॥ न प्रकरणकारेणात्रापरिगृहीतस्येत्युक्तं, आदिग्रहणादनेकविधसारासारचेतनाचेतनमिश्रद्रव्यजातपरिग्रहः, जातशब्दः प्रकारवचनो, द्रव्यप्रकारः, गुणपर्याययोर्द्रव्यपरिणामविशेषादेव न भेदेनोपादानमिति, ननु चैवंविधे भाष्यार्थे परैः परिगृहीतस्यादत्तस्य स्तेयबुद्ध्या ग्रहणमदत्तादानमिति अनेषणीयादेर्ग्रहणप्रसङ्गः, येन परिगृहीतमनेषणीयादि स ददात्येव, ततस्तद्ग्रहणे कथं स्तेयमिति, उच्यते, सत्यं, तद् गृहिणा दीयते, शास्त्रेण तु प्रतिषिध्यते, गरीयांश्च शास्त्रप्रतिषेधो, भवतु नाम शास्त्रप्रतिषेधस्तच्छास्त्रं कथं परशब्दवाच्यं ?, परो ह्यात्मा चेतनालक्षण इति, उच्यते, शास्त्रमपि ज्ञानमात्मनः परिणामविशेषः, स परिणामिन्यात्मनि अभेदेन वर्तमानः परशब्दवाच्यो न्यक्षेण(=समस्तेन) क्षीणघातिकर्मणो भगवत उपदेशादुपजातभावश्रुतपरिणामाः गणधरप्रत्येकबुद्धस्थविराः प्रतिषेधयन्त्यनेषणीयादि, वर्णपदवाक्यराशिर्द्रव्यश्रुतम्, उपचारात् शास्त्रमुच्यते पुस्तकादिलिखितमतः सर्वमदत्तादानं सूत्रेण समग्राहीति, तच्चतुर्द्धाऽधीतमागमे, द्रव्यक्षेत्रकालभावभेदात्, द्रव्यतो ग्रहणधारणीयेष्वित्युक्तं, क्षेत्रतत्रैलोक्यव्यवच्छिन्ना(स्थिता)नि तान्येव द्रव्याणि, कालभावौ तु पूर्ववद्भावनीयौ ग्रहणधारणीयेष्विति । आदानं गृह्यमाणधार्यमाणद्रव्यविषयत्वाद्दव्यैकदेशवृत्तिः, न तु समस्तद्रव्यविषयं, ग्रहणधारणे तु साक्षात् पुद्गलद्रव्यस्यैव, शरीरिणां च जीवानां पुद्गलद्रव्यद्वारेणैव ते ग्रहणधारणे, न पुनः साक्षात्, ननु चैवं परकीयभूमिखण्डापहारे धर्माधर्माकाशकालानामपि तदवच्छिन्नानामपहारस्ततश्चैतदपि सकलद्रव्यविषयमेव स्यात् न द्रव्यैकदेशवृत्तीति, उच्यते, हस्तादिना करणेन यद्रव्यं पूर्वकाधारप्रदेशात् प्रदेशान्तरं प्रापयितुं शक्यते तद् ग्रहणधारणीयशब्दाभ्यामार्षे विवक्षितं, तच्चैवंविधं ग्रहणं धारणं चाकाशादिषु न सम्भवति, तस्माद्दव्यैकदेशवृत्त्येवादानं न्याय्यं ।