________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
સૂત્ર-૧૦
सूत्रबन्धमेवं न चकारेति, अनेन च लक्षणेन खरकुटीसम्बन्धे मानुषकेशादेर्भावत उज्झितस्य सति प्रयोजने ग्रहणमवकरादिस्थानोज्झितचीवरादेर्वा न स्तेयमिति, स्तेयबुद्धीत्यादि भाष्यं, स्तेनस्य भावः स्तेयं, हरामीत्यादातुः परिणामः स्तेयबुद्धिः, सा च प्रमत्तस्यैव कायवाङ्मनोयोगत्रयानुसारिणी, बुद्धिर्ज्ञानमिति, तया स्तेयबुद्धया, कषायादिप्रमादकलुषितधिया करणभूतया कर्तुः परिणन्तुराददानस्य स्तेयमिति, आदानं च द्रव्यभावाभ्यामात्मनो यथासम्भवमायोज्यं, स्तेयबुद्धिग्रहणात्तु कर्म्मादानं न स्तेयमिति, ज्ञानावरणादिकर्म्मणो हि यद्यप्यदत्तस्य ग्रहणमात्रं तथापि न तस्य स्तेयबुद्धिर्भवति, सत्स्वपि प्रमादादिबन्धहेतुषु स्तेयबुद्ध्या त्वादित्समानस्य स्तेयं, एतदेव स्पष्टतरमाचष्टे भाष्यकारः परैरदत्तस्येत्यादिना परैः परिगृहीतस्य दानप्रवृत्तिरादानं वा सम्भवति, नापरिगृहीतस्य, अतस्तैरदत्तस्यादानं स्तेयं, न तु ज्ञानावरणादिकर्म्मणः कश्चित् परिग्रहीताऽस्ति यो दास्यति न वेति, यदा च परैः परिग्रहीतृभिः परिगृहीतस्यादत्तस्यादानं स्तेयं तदा नास्ति कर्मणि प्रसङ्गः, अपि च प्रायोग्यमनुज्ञातं दक्षिणार्धदेवेन्द्रेण प्रथमतीर्थ एव भगवतः सुरासुरशिरोमालाकुसुमरजोरञ्जितचरणस्य नाभेयस्य, कियतः पुनरन्यदीयस्य स्वीकरणं स्तेयमित्याहतृणादेर्द्रव्यजातस्येति, तृणमादिर्यस्य द्रव्यजातस्य तत् तृणादि, तृणग्रहणं निस्सारताप्रतिपादनार्थमल्पताप्रतिपादनार्थं च, तृणेन निःसारेणाल्पेनैकेनाप्यपहृतेनात्यन्तमैहिको दोषो न सम्भाव्यते, तादृशस्याप्यदत्तस्यादानं स्तेयं भवति, किमुत मरकतपद्मरागादेरिति, अत्र च परिगृहीतापरिगृहीतस्येति केचिद् भाष्यमभिधीयते, तदयुक्तं, न ह्यपरिगृहीतस्य शास्त्रेणानुज्ञातस्य ग्रहणं स्तेयमिष्यते, तस्मादपरिगृहीतस्येति प्रमादपाठः, तथा तस्यैव भाष्यकृतः शौचप्रकरणे ग्रन्थ:
“अदत्तादानं नाम परैः परिगृहीतस्य तृणादेरप्यनिसृष्टस्य ग्रहणं स्तेयं,
૧૧૬