________________
58
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
ન હોય તો વક્તા અને શ્રોતા એ બંનેનો ધર્મ વિધિથી સાપેક્ષ હોવાથી मां श्रे विशेषता न रहे. ( . २८)
यतश्चैवमतः किमित्याह
જો આ પ્રમાણે છે તો આનાથી શું કરવું જોઇએ તે કહે છે— श्रममविचिन्त्यात्मगतं, तस्माच्छ्रेयं सदोपदेष्टव्यम् । आत्मानं च परं च हि, हितोपदेष्टानुगृह्णाति ॥३०॥
શ્લોકાર્થ આથી પોતાના શ્રમનો વિચાર કર્યા વિના સદા કલ્યાણકારી (મોક્ષમાર્ગનો) ઉપદેશ આપવો જોઇએ. કલ્યાણકારી उपदेश आपनार स्व-पर-लय उपर अनुग्रह डरे छे. (अ.30)
टीका- 'श्रममविचिन्त्ये 'त्यादि, श्रमं - हृदयशोषादिरूपं अविचिन्त्यअविगणय्यात्मगतं-स्वगतं यस्मात् सर्वार्थसम्पादनेनोत्तमो धर्म्मः तस्माच्छ्रेयःअपवर्गसाधनं सदोपदेष्टव्यं सदा कथनीयं श्रेय एव च नाश्रेयः, स्वपरोपकारकमित्यर्थः, शास्त्रादि श्रेयः, उपदेशफलमाह - 'आत्मानं च परं चे'ति, चशब्दौ द्वयोरप्यनुग्रहसमुच्चयपरौ, आत्मानं च परं च, हि यस्मात्, हितोपदेष्टा- अपवर्गसाधनकथकः सत्त्वः, अनुगृह्णाति, उभयोर्निःश्रेयसगुणसिद्धेरिति, अनेन पूर्वोक्तं प्रयोजनादि समर्थितमिति । तत्त्वार्थाधिगमसङ्ग्रहाभिधानेन शिष्यानुग्रहः शास्त्रकर्तुः प्रयोजनं इदं चानन्तरप्रयोजनं, परम्परप्रयोजनं तु मुक्तिरेव, तज्ज्ञानतो वैराग्यादिभावेन मुक्तिसिद्धेरिति,
उक्त च
-
"मोक्षमार्गोपदेशेन, यः सत्त्वानामनुग्रहम् ।
करोति दुःखतप्तानां स प्राप्तनोत्यचिरात् शिवम् ॥ १॥" इति, श्रोतॄणां त्वनन्तरप्रयोजनं तत्त्वार्थज्ञानं, श्रवणप्रतिबोधानन्तरं तस्यैव भावात्, परम्परप्रयोजनं तु मुक्तिरेव, तज्ज्ञानतो वैराग्यादिभावेन मुक्तिसिद्धेरिति उक्तं च
"मोक्षमार्गपरिज्ञानाद्विरक्ता भवतो जनाः ।
क्रियासक्ता ह्यविघ्नेन, गच्छन्ति परमां गतिम् ॥ | १ || " इति, अभिधेयादि पूर्ववत् ||३०||