SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ૩૩૨ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ સૂત્ર-૩૫ स्यादेतत् न द्वादश देवलोकाः तदनुसारेणैव च न लेश्याप्रवीचारस्थितयोऽपि वर्णिता भवेयुः, किञ्च-एकादश जिने इति परीषहप्रकरणे सूत्रमपि न स्यात्, यद्यपि नग्नाटैनॆत्यध्याहृत्य व्याख्यायते परं पुरः पश्चाद्विधिसूत्रेषु मध्ये निषेधसूत्रतया विना निषेधं व्याख्या विनाऽऽग्रहं न किमपि ध्वनयति, किञ्च-परीषहाणां द्वाविंशतेर्भावात् एकादशानां निषेधेऽपि ध्रौव्यमेकादशानामिति, अन्यच्च तत्त्वार्थसूत्रमेव नग्नाटानामाद्यं सूत्रं मतमूलं चैतत्, तत्र यदि जिने एकादशानां परीषहाणां निषेधः तर्हि बाढमुद्घोषणीयमेतद् यदुत एकादशपरीषहाणां सद्भावसाधकं श्वेताम्बरीयमेव शासनं शाश्वतं, यद्यपि दिग्वस्त्रैरात्मसात्कर्तुं परावर्त्तितानि सूत्राण्यनेकानि परं तत्परावर्तनं घृतं मुषित्वाऽऽतपस्थितस्य शिरोवेष्टने धारकस्य कृतिमनुकुरुते साक्षान्नवेति सूत्राणां परस्परं भेदं पर्यालोचकयतामिदं स्पष्टं, न च विस्तरभिया प्रदर्श्यते, भाष्यपुस्तकं वृत्तिकारद्वयवचनादेव प्रागनेकधा परावृत्तिमत् परं वृत्तिकरणादनु व्यस्थितं तत् तत्र वृत्तिप्रभाव एव, यद्यपि सम्बन्धकारिकासु देवगुप्तसिद्धसेनीयवृत्त्योः अधिकं कारिकाद्वयं सङ्ग्रहाशक्यताऽधिकारे प्रकृतायां च वृत्तौ उत्पादव्ययेति सूत्रे भाष्यमधिकं तथापि अन्यः पाठः समानप्राय एव भाष्यस्येति सुस्थं सर्वं । मुद्रणं चास्या वृत्तेः पूर्वकालमेव चिकीर्षितं श्रीसिद्धसेनीयाया वृत्तेः परमन्यग्रन्थानां मुद्रणव्यापृतेरिदानीं यावन्नाभूत् तत्, प्रतयश्च नास्याः सुलभा इति यथामति विहितायामपि शुद्धौ नाशुद्धीनामसम्भव इति तच्छोधनेनोपकारविधाने सज्जना अभ्यर्थ्या एव । विषयस्त्वस्य यद्यपि प्रारम्भसूत्रे एव सूचितस्तथापि वृत्तेर्भाष्यस्य चानुक्रमं दृष्ट्वा स सुखेनावधारणीयः, अकारादिक्रमस्तु लघुतमग्रन्थत्वान्नास्यातीवोपयोगीत न तत्रादरः, यथायथमेनत् सवृत्तिकं सभाष्यमवबुध्य तदुक्तानुष्ठानेन सफलीकुर्वन्तु सज्जनाः श्रममेतदीयमित्यर्थयन्ते आनन्दसागराः । ___ - वीरसंवत् २४६२ माघशुक्ला ६ घेटी
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy