SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૩૫ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ ૩૩૧ तत्त्वार्थाधिगमाख्यं ग्रन्थं वक्ष्यामीति, परमिदमेवेति, मोक्षमार्ग प्रवक्ष्यामीति च सूत्रभाष्ययोरेककर्तृकतां व्यनक्ति तत्त्वार्थेत्यभिधैव भाष्यकारेण सूचिता । ४. षट्पुरुषीस्वरूपताकथनपूर्वं मङ्गलं श्रीवीरनमस्काररूपं प्रयोजनादि च भाष्यकारैरेवाभाषि सङ्ग्रहस्याशक्यताप्रतिपादनमपि भाष्यकाराणां स्वोपज्ञत्वमेव भाष्यस्य भाषते, अन्यथा सङ्ग्रहकारस्य माहात्म्यमेव जेगीयेत पाठान्तरमर्थान्तरमाचार्यान्तरमतं यन्न कुत्रापि भाष्ये तदपि स्वोपज्ञता मूलकं ७. स्थाने स्थाने उक्तं भवतेत्युक्त्वा सूत्रोक्तिस्मारणं न स्वोपज्ञत्वमन्तरेण ८. स्थाने स्थाने वक्ष्यामः उपदेक्ष्याम इति क्रियापदानामस्मदुपपदार्हाणां न तदन्तरा सत्ता ९. जीवभव्येति सूत्रस्थमादिपदं विहायान्यवचस आलम्बनं व्याख्यातं तत्तदैव योग्यं १०. यथोक्तेति सूत्रस्थं षड्विकल्पपदं यद्विकल्पविशदीकरणपूर्वकतया ऽऽख्यातं तदपि भाष्यसूत्रयोरेककर्तृतायामेव जाघटीति सत्स्वेवंविधेष्वनेकेषु कारणेषु यत् नग्नाटैः सूत्रस्य स्वीकारेऽपि भाष्यमनङ्गीकृत्यार्धजरतीयमनुक्रियते तत्र सामायिकपौषधादिविधिः पौषधातिचारेषु संस्तारस्तत्प्रमार्जनादेः दाने वस्त्रादेर्दानं आदाननिक्षेपसमितौ रजोहरणपात्रचीवरादीनां पीठफलकादीनां च ग्रह इत्यादि संयमोपकरणसत्तासिद्धिरेवानुमीयते हेतुः, किञ्चान्यत्-भाष्यस्य स्वीकारे दशवैकालिकोत्तराध्ययनकल्पव्यवहारदशाश्रुतस्कन्धनिशीथऋषिभाषितादीनां स्वीकारोऽपि वर्तमानानामावश्यकः स्यात्, जिननामहेतुषु साधुवैयावृत्त्याधिकारे सङ्ग्रहोपग्रहानुग्रहकारित्वं यदुल्लिखितं तदपि न तेभ्यो रुच्यं, व्युत्सर्गतपसि बाह्योपधित्यागविवरणमपि न विवसनानां रुचिकरमिति न स्वीकृतं तैर्भाष्यं, वस्तुतस्तु सूत्रमेव तैः श्वेताम्बरीयमेव सदात्मसात् कृतं, नग्नाटीयं चेत् सूत्रं
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy