________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૩૧
"
शेषज्ञानानामभाव एवेति, अत्रोच्यत इत्युत्तरग्रन्थोपन्यासः, 'केचिदि' त्यादि, विप्रतिपत्तिरिति केषाञ्चिन्मतोपन्यासः, केचिदृजुमतयः आचार्याः-सूरयो व्याचक्षते अत्र, किमित्याह - नाभावः शेषज्ञानानां, सत: सर्वथा असत्ताऽयोगात्, समु (सत्सु) सुखादेरप्यसत्त्वप्रसङ्गात्, किन्तु अभिभूतत्वात्तिरस्कृतत्वात् केवलेन अकिञ्चित्कराणि भवन्ति, स्वप्रयोजनासमर्थानीत्यर्थः, दृष्टान्तमाह - 'इन्द्रियवत्' यथेन्द्रियमकिञ्चित्करं चक्षुरादि केवलिनः सर्वात्मना केवलेनैव तद्विषयदर्शनात् तद्वदिति, शिष्यव्युत्पत्तये निदर्शनान्तरमाह-‘यथा वे 'त्यादि, यथा वा-येन वा प्रकारेण एतत् स्थितं लोके, किमित्याह - 'व्यभ्रे नभसि' विगताभ्रे आकाशे आदित्ये उदिते सति, किं विशिष्टे इत्याह- 'भूरितेजसि ' प्रभूतोद्योते, किमित्याहभूरितेजस्त्वादेव कारणात् आदित्येनाभिभूतानि तिरोहितस्वसामर्थ्यानि, कानीत्याह- अन्यतेजांसि - अन्यानि च तानि तेजांसि च अन्यतेजांसि, तेजसोऽभेदात्तेजोमयानि द्रव्याण्येव गृह्यन्ते, तथा चाह - 'ज्वलनमणिचन्द्रनक्षत्रप्रभृतीनि ' ज्वलन:- अर्चिः मणिः - सूर्यकान्तचन्द्रकान्तादिः चन्द्रः-शशी नक्षत्रं-अश्विन्यादि, प्रभृतिशब्दात्तारकादिपरिग्रहः, एतानि प्रकाशनम् - उद्योतनं प्रत्यकिञ्चित्कराणि भवन्ति, ते (तानि न ) किञ्चिहिरवस्थितं प्रकाशयन्ति, हतप्रभावत्वात्, 'तद्वदि'ति तेन प्रकारेण केवल भास्वता भूरितेजसाऽऽक्रान्तानि न विषयप्रकाशनं प्रति व्याप्रियन्ते मत्यादीनि, अत्रैव मतान्तरमाह- 'केचिदप्याहु' रित्यादिना, अन्ये पुनर्बुवते'अपाये 'त्यादि, युक्तिग्रन्थान्नैतानि मत्यादीनि केवलिनः सन्ति, तत्रापायसद्द्रव्यतयेति पूर्ववत्, अनेन प्रकारेण न मतिज्ञानं, श्रोत्रादीन्द्रियोपलब्धेहितार्थनिश्चयरूपं न तदभावात् तत्पूर्वकं मतिज्ञानपूर्वकं श्रुतज्ञानम्उक्तलक्षणं न, अवधिज्ञानमनःपर्यायज्ञाने च यथोक्तस्वरूपे रूपिद्रव्यविषयनियमगोचरे, अत एते अपि न, सकलवस्तुविषयत्वात् केवलस्य, यस्मादेवं तस्मान्नैतानि सर्वाण्येव केवलिनः सतः प्रवृत्तक्षायिकालोकस्य
૨૫૪
—