________________
सूत्र-39
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
टीका - ('एकादीनि' इत्यादि) निर्वचनसूत्रं, प्रथमादीनि विकल्प्यानि एकस्मिन् काले एकस्मिन् प्राणिनि चत्वारि यावद्, आङोऽभिविधिवाचकादिति सूत्रसमुदायार्थः । एनमेवोपदर्शयन्नाह भाष्यकार:- 'एषां मत्यादीनां ज्ञानानां एतद्विचाराधिकारात् प्रस्तुतानां आदित आरभ्य एकादीनि भाज्यानि युगपदेकस्मिन् जीवे प्रमातरि आ चतुर्थ्य इत्यभिविधावाङ्, एतदेव स्पष्टयन्नाह - 'कस्मिँश्चि' दित्यादि कस्मिँश्चिज्जीवेमनुष्यादौ मत्यादीनां पञ्चानां ज्ञानानां एकं भवति, आद्यं मतिज्ञानमेव, एतच्च क्वचिन्निसर्गसम्यग्दर्शनस्यानवाप्ताक्षर श्रुतेः निसर्गतः प्रवचनमातृमात्रपरिज्ञानवति दृश्यं, तथा कस्मिँश्चिज्जीवे द्वे भवतः मतिश्रुते, एते अपि सम्यग्दर्शनवत्यवाप्ताक्षर श्रुते दृश्ये, तथा कस्मिँश्चित् त्रीणि भवन्ति, मतिश्रुतावधीनि प्राक्तने (द्वये) एवावधिसमुत्पत्तेः, तथा कस्मिँश्चिच्चत्वारीति मतिश्रुतावधिमन: पर्यायाणि, ज्ञानत्रयवति मन: पर्यायोत्पत्तौ, आह-मति श्रुतयोर्युगपल्लाभ उक्तः तत् कथं मतिज्ञानमेकं भवति ?, उच्यते, युगपल्लाभेऽपि तदुपयोगयोभिन्नप्रकारत्वात्, तदुपयोगमधिकृत्यान्यापूर्वकत्वान्मतिज्ञानमेवैकं भवति, श्रुतज्ञानमप्येवं न किमिति चेदित्याह - 'श्रुतज्ञानस्य त्वि'त्यादि, श्रुतज्ञानस्य पुन:ग्रन्थानुसार्युपयोगरूपस्य 'मतिज्ञानेन' यथोदितरूपेण नियतो- निश्चितः 'सहभाव: ' - एकत्रवृत्तिः, कुत इत्याह- 'तत्पूर्वकत्वात्' - मतिज्ञानपूर्वकत्वादिति, एतदेव स्पष्टयति 'यस्येत्यादिना यस्य जन्तोः श्रुतज्ञानं श्रुतानुसार्यस्ति तस्य नियतम् - अवश्यं मतिज्ञानं यथोक्तलक्षणं सम्भवति, यस्य पुनर्मतिज्ञानं केवलं निसर्गसम्यग्दर्शनकाले अनवाप्ताक्षर श्रुतस्य तस्यैवंभूतस्य श्रुतज्ञानं ग्रन्थानुसारि स्यादुत्तरकालं पठतो न वा अनधीयानस्येत्यत एकमुक्तं, (अथ) चेन्मतिज्ञानमेव केवलज्ञानस्य सकलज्ञेयग्राहिणः पूर्वैः-पूर्वकालप्राप्तैः पूर्वसन्निवेशिभिर्वा मतिज्ञानादिभिश्चतुर्भिः सह किं सहभावः सहावस्थानं भवति नेति ?, उत
૨૫૩