SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ૨૩૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ સૂત્ર-૨૬ चापरो भेद इति, 'क्षेत्रकृतश्चानयोः' अवधिमनःपर्याययोः प्रतिविशेषोभेदो दृश्यः, एतद्भावयति-'अवधिज्ञानमङ्गले'त्यादि अङ्गलमसङ्ख्येयानि खण्डानि कृतानि तत्रैकस्मिन्नसङ्ख्येयभागमात्रे क्षेत्रे यावन्ति रूपिद्रव्याणि समवगाढानि सर्वस्तोकानि यः पश्यति ततः स एव वर्द्धमानेन तेन बहूनि बहुतराणि द्रव्याण्यवगच्छति यावत् सर्वलोकावस्थितानि द्रव्याणि पश्यति शुभाध्यवसायविशेषादिति, एतदाह- अङ्गुलस्यासङ्ख्येयभागादिषूत्पन्नं भवत्यासर्वलोकादिति, मनःपर्यायज्ञानं, तुशब्दः पुनःशब्दार्थः, मनुष्यक्षेत्र एव-अर्द्धतृतीयद्वीपसमुद्रपरिमाणे भवति, नान्यक्षेत्र इति-सौधर्मादौ अन्यक्षेत्रे एव, न अन्यक्षेत्रजमनःपर्याप्तिमत्प्राणिविषयं तु, मनुष्यलोक एव भवतीति क्षेत्रग्रहणं, "किञ्चान्यत्स्वामिकृत' इत्यादि पूर्ववत्, अवधिज्ञानमवधिकृतं संयतस्य-साधोः विरतस्यासंयतस्य-अविरतस्य संयतासंयतस्य-विरताविरतस्य श्रावकस्य सर्वगतिषु नारकादिषु चतसृष्वपि भवति, मनःपर्यायज्ञानं पुनर्मनुष्यसंयतस्यैव भवति, मनुष्यग्रहणान्नारकादिव्युदासः, संयतग्रहणान्मिथ्यादृष्ट्यादीनां प्रमत्तान्तानां षण्णां व्युदासः, एवकारेण नियमयतिमनुष्यसंयतस्यैव, फलं नियमस्य दर्शयति-'नान्यस्येति देवादेः नैतदुत्पद्यत इत्यर्थः, 'किञ्चान्यत् विषयकृत' इत्यादि, रूपिषु परमाणुद्रव्येषु सर्वेषु 'असर्वपर्यायेष्वि'ति सर्वे-सम्पूर्णाः पर्याया-उत्पादादयो येषां तानि सर्वपर्यायाणि न सर्वपर्यायाणि असर्वपर्यायाणि तेषु, तानि हि रूपिद्रव्याण्यवधिज्ञानी सर्वाणि जानाति, न तु तेषां सर्वान् पर्यायान् इति, एकैकस्य तु परमाणोः कदाचिदसङ्ख्येयान् कदाचित् सङ्ख्येयान् पर्यायान् जानाति, कदाचिञ्जघन्येन चतुरो रूपरसगन्धस्पर्शान्, न पुनरेकैकस्य परमाणोरनन्तान् ज्ञातुं प्रत्यलं स्यात् पर्यायानिति, यदि हि सर्वानेव जानीयात् केवल्येवासौ स्यात्, 'जे एगं जाणति से सव्वं जाणती'त्यागमात्, अतः असर्वपर्यायेषु 'अवधेः' अवधिज्ञानस्य
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy