________________
૨૩૮
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ સૂત્ર-૨૬ चापरो भेद इति, 'क्षेत्रकृतश्चानयोः' अवधिमनःपर्याययोः प्रतिविशेषोभेदो दृश्यः, एतद्भावयति-'अवधिज्ञानमङ्गले'त्यादि अङ्गलमसङ्ख्येयानि खण्डानि कृतानि तत्रैकस्मिन्नसङ्ख्येयभागमात्रे क्षेत्रे यावन्ति रूपिद्रव्याणि समवगाढानि सर्वस्तोकानि यः पश्यति ततः स एव वर्द्धमानेन तेन बहूनि बहुतराणि द्रव्याण्यवगच्छति यावत् सर्वलोकावस्थितानि द्रव्याणि पश्यति शुभाध्यवसायविशेषादिति, एतदाह- अङ्गुलस्यासङ्ख्येयभागादिषूत्पन्नं भवत्यासर्वलोकादिति, मनःपर्यायज्ञानं, तुशब्दः पुनःशब्दार्थः, मनुष्यक्षेत्र एव-अर्द्धतृतीयद्वीपसमुद्रपरिमाणे भवति, नान्यक्षेत्र इति-सौधर्मादौ अन्यक्षेत्रे एव, न अन्यक्षेत्रजमनःपर्याप्तिमत्प्राणिविषयं तु, मनुष्यलोक एव भवतीति क्षेत्रग्रहणं, "किञ्चान्यत्स्वामिकृत' इत्यादि पूर्ववत्, अवधिज्ञानमवधिकृतं संयतस्य-साधोः विरतस्यासंयतस्य-अविरतस्य संयतासंयतस्य-विरताविरतस्य श्रावकस्य सर्वगतिषु नारकादिषु चतसृष्वपि भवति, मनःपर्यायज्ञानं पुनर्मनुष्यसंयतस्यैव भवति, मनुष्यग्रहणान्नारकादिव्युदासः, संयतग्रहणान्मिथ्यादृष्ट्यादीनां प्रमत्तान्तानां षण्णां व्युदासः, एवकारेण नियमयतिमनुष्यसंयतस्यैव, फलं नियमस्य दर्शयति-'नान्यस्येति देवादेः नैतदुत्पद्यत इत्यर्थः, 'किञ्चान्यत् विषयकृत' इत्यादि, रूपिषु परमाणुद्रव्येषु सर्वेषु 'असर्वपर्यायेष्वि'ति सर्वे-सम्पूर्णाः पर्याया-उत्पादादयो येषां तानि सर्वपर्यायाणि न सर्वपर्यायाणि असर्वपर्यायाणि तेषु, तानि हि रूपिद्रव्याण्यवधिज्ञानी सर्वाणि जानाति, न तु तेषां सर्वान् पर्यायान् इति, एकैकस्य तु परमाणोः कदाचिदसङ्ख्येयान् कदाचित् सङ्ख्येयान् पर्यायान् जानाति, कदाचिञ्जघन्येन चतुरो रूपरसगन्धस्पर्शान्, न पुनरेकैकस्य परमाणोरनन्तान् ज्ञातुं प्रत्यलं स्यात् पर्यायानिति, यदि हि सर्वानेव जानीयात् केवल्येवासौ स्यात्, 'जे एगं जाणति से सव्वं जाणती'त्यागमात्, अतः असर्वपर्यायेषु 'अवधेः' अवधिज्ञानस्य