SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ૨૩૬ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ સૂત્ર-૨૬ उत्तर- नहीं उहेवाय छे टीकावतरणिका - सूत्रान्तरयोगमाह-'अत्राहे' त्यादि, अत्रऋजुविपुलमत्योर्भेदे उक्ते चोदक आह-अथ अवधिमनःपर्यायज्ञानयोःउक्तलक्षणयोः कः प्रतिविशेष इति पूर्ववत्, अतीन्द्रियत्वाविशेषात् प्रष्टुर्भ्रान्तिहेतु:, अत्रोच्यते गुरुणा टीअवतरशिडार्थ - अन्य सूत्रना संबंधने उहे छे - अत्राह इत्यादि, ઋજુમતિ-વિપુલમતિ એવા બે ભેદ કહ્યે છતે પ્રશ્નકા૨ પૂછે છે કે અવધિમન:પર્યાયજ્ઞાનમાં શો ભેદ છે ? બંને અતીન્દ્રિય હોવાથી અતીન્દ્રિયપણાની દૃષ્ટિએ બંને સમાન છે એવી ભ્રાન્તિ પ્રશ્નનું કારણ છે. અહીં ગુરુ પ્રત્યુત્તર કહે છે— અવધિ અને મન:પર્યાયમાં ભેદ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनः पर्याययोः ॥१-२६॥ સૂત્રાર્થ– વિશુદ્ધિ, ક્ષેત્ર, સ્વામી અને વિષય એ ચાર હેતુઓથી अवधिज्ञान अने मनःपर्यायज्ञानमां लेह छे. (१-२६) भाष्यं - विशुद्धिकृतः क्षेत्रकृतः स्वामिकृतो विषयकृतश्चानयोर्विशेषो भवत्यवधिमनःपर्यायज्ञानयोः ॥ तद्यथा - अवधिज्ञानान्मनःपर्यायज्ञानं विशुद्धतरम् । यावन्ति हि रूपीणि द्रव्याण्यवधिज्ञानी जानीते तानि मन:पर्यायज्ञानी विशुद्धतराणि मनोगतानि जानीते ॥ किञ्चान्यत् क्षेत्रकृतश्चानयोः प्रतिविशेषः अवधिज्ञानमङ्गुलस्यासंङ्ख्येयभागादिषूत्पन्नं भवत्यासर्वलोकात् । मनः पर्यायज्ञानं तु मनुष्यक्षेत्र एव भवति नान्यक्षेत्र इति ॥ किञ्चान्यत् - स्वामीकृतश्चानयोः प्रतिविशेषः । अवधिज्ञानं संयतस्य असंयतस्य वा सर्वगतिषु भवति । मनःपर्यायज्ञानं तु मनुष्यसंयतस्यैव भवति, नान्यस्य ॥ किञ्चान्यत्- विषयकृतश्चानयोः प्रतिविशेषः । रूपिद्रव्येष्वसर्वपर्यायेष्ववधेर्विषयनिबन्धो भवति । तदनन्तभागे मनःपर्यायस्येति ॥१-२६॥
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy