________________
૨૩૪
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
सूत्र-२५ ऋजुमतिमनःपर्यायज्ञानं प्रतिपतत्यपि भूयः । विपुलमतिमनःपर्यायज्ञानं तु न प्रतिपततीति ॥१-२५॥
ભાષ્યાર્થ– ઋજુમતિ અને વિપુલમતિમાં વિશુદ્ધિનો અને सप्रतिपातनो (1यम 2g ) मे छे. ते ॥ प्रभारी- भतिमन:પર્યાયથી વિપુલમતિના પર્યાયજ્ઞાન અધિક વિશુદ્ધ છે. વળી બીજું ઋજુમતિમન:પર્યાયજ્ઞાન જતું પણ રહે, વિપુલમતિના પર્યાયજ્ઞાન જતું नथी. (१-२५)
टीका- विशुद्ध्यप्रतिपाताभ्यां वक्ष्यमाणस्वरूपाभ्यां 'तद्विशेष' इति ऋजुविपुलमत्योर्नानात्वमिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह भाष्यकार:-'विशुद्धिकृतश्चे'त्यादिना विशुद्ध्या-बहुतरपर्यायज्ञानरूपया कृतः-जनितः विशुद्धिकृतः, चः समुच्चये, तथा अप्रतिपातेनअच्यवनरूपेण कृतोऽप्रतिपातकृतश्चानयोः ऋजुविपुलमत्योः प्रतिविशेषोभेद इति, एतदेव भावयति-'तद्यथे' त्यादिना, तद्यथेत्युपन्यासार्थः, ऋजुमतिमनःपर्यायज्ञानात्तु उक्तलक्षणात् सकाशात् विपुलमतिमनःपर्यायज्ञानमुक्तलक्षणमेव विशुद्धतरमिति, जातिभेदेन बहुतरपर्यायावगमादिति, तथाहि-घटे चिन्तिते ऋजुमतिमनःपर्यायज्ञानेन घटोऽनेन चिन्तित इत्यानुगामिकावगमने मनोद्रव्याणि साक्षात् क्रियन्ते, विपुलमतिमनःपर्यायज्ञानेन तु घटोऽनेन विचिन्तितः स महान् रक्तः श्यामो वेत्यानुगामिकावगमनिबन्धनानीति, 'किञ्चान्यद्' इत्ययमपरो भेदहेतुः, ऋजुमतिमनःपर्यायज्ञानमुक्तलक्षणं प्राप्तं सदप्रमत्तयतिना प्रतिपतत्यपि प्रच्यवते, अपिशब्दात्तु न प्रतिपतत्यपि, भूयः-पुनः विपुलमतिमनःपर्यायज्ञानं तु न प्रतिपतत्याकेवलप्राप्तेरिति, बहुत्वेऽपि मनोद्रव्यविशेषाणां तद्भानस्य द्वैविध्योपपत्तिः ॥१-२५॥
ટીકાર્થ– જેનું સ્વરૂપ હવે કહેવાશે તે વિશુદ્ધિ અને અપ્રતિપાતથી ઋજુમતિ અને વિપુલમતિમાં ભેદ છે. આ પ્રમાણે સૂત્રનો સમુદિત અર્થ