________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૨૨
ભાષ્યાર્થ– નારકો અને દેવોને પોતાના ભવમાં ઉત્પન્ન થતી વખતે જેટલું અધિજ્ઞાન હોય તે ભવપ્રત્યય અવધિજ્ઞાન કહેવાય છે. ભવ પ્રત્યય એટલે ભવ જેનો હેતુ છે તેવું, અર્થાત્ ભવના નિમિત્તવાળું. તેઓને ભવની ઉત્પત્તિ જ અવધિજ્ઞાનનો હેતુ બને છે. પક્ષીઓને આકાશમાં જવાની શક્તિની જેમ. પક્ષીઓને આકાશમાં ઊડવામાં શિક્ષા } तय अरा नथी. (१-२२)
૨૧૮
,
टीका - अवधिरिति वर्त्तते, सूत्रसमुदायार्थः प्रकटः, अवयवार्थमाह भाष्यकार:-‘नारकाणा’मित्यादिना नरकाः - सीमन्तादयस्तेषु भवाः प्राणिनस्तीव्रदुःखभाजो नारकास्तेषां तथा दीव्यन्त इति देवा: भवनवास्यादयः प्रधानसुखभाजः प्राणिन एव तेषां, 'यथास्व' मिति यथा स्वात्मीयं यस्य यत् स्वक्षेत्रादि नियतं गव्यूतपञ्चविंशतियोजनादिमानमित्यर्थः किमित्याह ? - 'भवप्रत्ययं' भवकारणमवधिज्ञानं भवतीति, क्षायोपशमिकत्वादवधेर्भवस्य कारणत्वमपश्यतः मा भूत् प्रत्ययशब्दो ज्ञानवचन इति विभ्रमः, स्वयमेव व्याचष्टे - 'भवप्रत्ययं भवहेतुकं भवनिमित्त' मित्यर्थः, कारणवचन एवायं प्रत्ययशब्द इति भाव:, आह- कथमौदयिको भावोऽस्य कारणं ? क्षायोपशमिकमेतदिति ?, सुप्रतीतं ?, उच्यते, सत्यमेतत्, किन्तु तस्मिन्नेव क्षयोपशम एवावश्यं भावीत्येवमुच्यते, एतदेवाह - 'तेषां ही 'त्यादि, तेषां नारकदेवानां यस्माद्भवोत्पत्तिरेवेति, उत्पत्तिशब्दः सत्तावचनो, भवसत्तैव नान्यत् किञ्चित् 'तस्य हेतुर्भवती 'ति तस्येति - निश्चयतो ज्ञानाव्यभिचारिणः क्षयोपशमस्य व्यवहारतस्तु ज्ञानस्यैव कारणं भवतीति, निदर्शनमाह 'पक्षिणा 'मित्यादिना, पक्षिणां - हंसादीनामाकाशगमनवत् यच्चैषामाकाशगमनं तच्छक्तेस्तद्भव एव नियमभावात् भवोत्पत्तिरेव हेतु:, न शिक्षा - अन्योपदेशरूपा, तथा 'न तपः' अनशनादिलक्षणं तद्वन्नारकदेवानामप्यवधेरिति भावः ॥१-२२॥
2