________________
૧૮૪
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૧૬
છે, ઉક્તનો અવગ્રહ કરે છે. ધ્રુવનો અવગ્રહ કરે છે, અદ્ભુવનો અવગ્રહ हुरे छे. खा प्रमाणे हा वगेरे विषे पए। भरावं. ( १ - १६ )
टीका- श्रुतानुगतैश्च पदैः प्रायो व्याख्या सूत्राणामिष्टेति अनुमीयमानैरवग्रहादिभिः बह्वादीनां सम्बन्धं लगयन्नाह - 'अवग्रहादयश्चत्वार' इत्यादि अवग्रहादयः प्राक्सूत्रे निरूपितस्वरूपा मूलभेदतश्चत्वार इति क्षयोपशमवैचित्र्यात्तु नानाभेदास्त एव भवन्तीति मत्वा चत्वार इत्याह, मतिज्ञानस्य च प्रकृतत्वाद्भेदा एत इति मतिज्ञानविभागा इत्याह, ते अवग्रहादय इति, एषां सूत्रोपन्यस्तानां बह्वादीनां षण्णामर्थानामर्थ्यमाणानामित्यर्थः, बह्वादीनां सेतराणां 'ते' अवग्रहादयो ग्राहका इत्याहसेतराणां भवन्तीति, 'एकश' इत्येकैकस्य बह्वादेः सेतरस्य मा भूद् बहोरर्थस्य क्षिप्रार्थ इतरो बह्वादीनां वा निश्रितादिरिति प्रतिपत्तिः, तन्निरासायाह-‘सेतराणामिति सप्रतिपक्षाणामित्यर्थः ' एतदुक्तं भवतिइतरशब्दस्य विरोध एवार्थः समवसेयो, नान्य इति एतदेव प्रकटयति, तद्यथा-‘बह्ववगृह्णाती’त्यादिना, ननु तावदवग्रहादयः प्रथमान्ताः श्रुताः पूर्वसूत्रे बह्वादयश्चेह षष्ठ्यन्ता इति तत्रैवमर्थकथनं युक्तं - बहोरर्थस्य अवग्रहः अल्पार्थस्यावग्रह इति, उच्यते अल्पोऽयं दोषः, यतोऽवग्रहादयः कर्तृसाधनास्तत्र श्रिता अवगृह्णातीत्यवग्रहः, ईहते इति ईहा, अपैतीत्यपायः धारयतीति धारणा, यश्चासौ ज्ञानांशोऽवगृह्णातीत्यादिरूपस्तस्यावश्यं कर्मणा भवितव्यं, ततश्चेह बह्वादिभेदं सूत्रेण विषयात्मकं भण्यते, अतो नास्त्येवार्थभेदो बहोरवग्रहः बहुमवगृह्णातीति, अनयोरेक एवार्थः, केवलं तु शब्दभेदः, तत्र बहुमवगृह्णाति वेणुवीणामृदङ्गपटहध्वनिसमुदयं क्षयोपशमोत्कर्षात्, कथमेतद् विनिश्चीयते, उत्तरकालं तथा अपायादिदर्शनात्, न ह्यसत्यवग्रह (दि) भेदे स तथाविधो युक्तः, अतिप्रसङ्गाद्, व्यावहारिकावग्रहमेवापेक्ष्यैवमुक्तमित्यन्ये, स ह्यपाय एवोत्तरेहाद्यपेक्षया अवग्रह इति, तथा 'अल्पमवगृह्णाति' तेषामेव वेण्वादिशब्दानामेकं