________________
सूत्र-१४ શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૧
૧૬૯ दन्यदनिन्द्रियं-मनः ओघश्चेति, तन्निमित्तमस्य मतिज्ञानस्य तदनिन्द्रियनिमित्तमिति, स्मृतिज्ञानहेतुर्मनः, एवं चैतद् द्रष्टव्यम्इन्द्रियनिमित्तमेकमपरमनिन्द्रियनिमित्तं अन्यदिन्द्रियानिन्द्रियनिमित्तमिति त्रिधा, तत्रैकमिन्द्रियनिमित्तमेव ज्ञानं मत्याख्यं, यथा अवनिनीरदहनपवनवनस्पतीनामेकेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणां असंज्ञिनां पञ्चेन्द्रियाणां, मनसः अभावात्, तथा अनिन्द्रियनिमित्तं स्मृतिज्ञानमितरेन्द्रियनिरपेक्षं, चक्षुरादिव्यापाराभावात्, तथा इन्द्रियनिमित्तं जाग्रदवस्थायां स्पर्शनेन मनसोपयुक्तं स्पृशत्युष्णमिदं शीतं वेति, इन्द्रियं मनश्चोभयं तस्योत्पत्तौ निमित्तं भवतीति, तदेतत् सर्वमेकशेषाल्लभ्यत इति, इन्द्रियं च अनिन्द्रियं च इन्द्रियानिन्द्रिये च इन्द्रियानिन्द्रियाणि तानि निमित्तं यस्य तदिन्द्रियानिन्द्रियनिमित्तमिति, एतदेवाह-इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च, चशब्दादुभयं चेति, अपेक्षाकारणं चाङ्गीकृत्य सूत्रं पपाठाचार्यः तदिन्द्रियानिन्द्रियनिमित्तमिति, अपेक्षाकारणं चालोकविषयेन्द्रियाणि, सति प्रकाशे विषये च चक्षुरादिषु च सत्सु ज्ञानस्योद्भवो दृष्टः, तेषामपि मध्येऽन्तरङ्गमपेक्षाकारणमिन्द्रियाणि पठितं, पारमार्थिकं तु कारणं क्षयोपशमः मतिज्ञानावरणपुद्गलानां, न हि तदावरणक्षयोपशममनपेक्ष्य ज्ञानस्योत्पत्तिरिष्यते, यदि तन्तिरनिमित्तं क्षयोपशमः स एवोपादेयः, किं बाह्येनेन्द्रियानिन्द्रियनिमित्तेनाधीतेनेति, उच्यते, स क्षयोपशमः सर्वसाधारण इतिकृत्वा न पठितः, चशब्देन वा सगृहीतो द्रष्टव्यः, इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च, चशब्दात् क्षयोपशमनिमित्तमिति, न च भावेन्द्रियस्य तद्रूपत्वादिति, तत्रेन्द्रियनिमित्तं स्वयमेव भावयति'तत्रेन्द्रिये'त्यादि, तत्र-तेषां त्रयाणां मध्ये इन्द्रियनिमित्तं तावद् भण्यते'स्पर्शनादीना'मिति स्पर्शनरसनघ्राणचक्षुःश्रोत्राणां पञ्चानामेव पञ्चस्वेवेत्यन्यस्याभावं नियमयति, स्वे आत्मीया विषया येषु प्राणिनः सक्तिं भजन्ते तेषु स्वेषु विषयेषु, तद्यथा-स्पर्शनस्य स्पर्शे रसनस्य रसे घ्राणस्य