________________
૧૬૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૧૨ ज्ञानदर्शनावरणक्षयोपशमात् क्षयाच्च इन्द्रियानिन्द्रियद्वारानपेक्षमात्मानमेव केवलमभिमुखीकुर्वदुदेति तत् प्रत्यक्षम्-अवध्यादि एव, 'तत् प्रमाणे' इति द्वित्वसङ्ख्यायां परोक्षप्रत्यक्षाख्यो यो विषयस्तमुपदर्थ्य प्रमाणशब्दार्थं कथयन्नाह भाष्यकार:-'प्रमीयन्तेऽस्तैिरिति प्रमाणानी'ति, प्रमीयन्तेपरिच्छिद्यन्ते सदसदित्यादिभेदेनार्थाः-जीवादयस्तैरिति प्रमाणानि, करणे ल्युट, भावनाऽत्र प्राक् कृतैव, ज्ञानव्यक्त्यपेक्षो बहुवचननिर्देशः प्रमाणानीति, 'अत्राहे'ति एवं द्वे परोक्षप्रत्यक्षप्रमाणे भवत इति ज्ञापिते चोदयति-'इहे'त्यादि, इह-शास्त्रेऽवधारितमेतत्, अन्यथा 'तत् प्रमाणे' इति द्वित्वसङ्ख्यावैयर्थ्य, के द्वे इत्याह-'प्रत्यक्षपरोक्षे' इति, लोकरूढ्यैवमुपन्यासः, ततः किमित्याह-'अनुमाने'त्यादि, अनुमानं चोपमानं चेत्यादिर्द्वन्द्वः, तत्रानुमान-लिङ्गादर्थदर्शनं, प्रसिद्धसाधात् साध्यसाधनमुपमानं, आप्तोपदेशः आगमः, दृष्टादेरदृष्टादिकल्पनमापत्तिः, सम्भवः प्रस्थादौ कुडवादिभावः, अभावो भावोपलम्भकप्रमाणविरह इति, एतान्यपि च प्रमाणानीत्येवं साङ्ख्यादयः आचार्यदेशीया वा (केचित्) मन्यन्ते 'तत् कथमेतदिति, किमेतान्यप्रमाणान्येव उत प्रमाणान्तराणि भवन्तीति चोदकाभिप्रायः, अत्र परिहारमाह-'उच्यत' इत्यादिना, उच्यते अत्र समाधिः, सर्वाण्येतानि-अनुमानादीनि मतिश्रुतयोरन्तर्भूतानिप्रविष्टानि, कथमिति युक्तिमाह-'इन्द्रियार्थे'त्यादि, इन्द्रियाणि-चक्षुरादीनि तेषामा-रूपादयः इन्द्रियाणि चार्थाश्च इन्द्रियार्थास्तेषां सन्निकर्षःसम्बन्धः स इन्द्रियार्थसन्निकर्षो निमित्तं यस्य तत्तथा अनुमानादि तद्भावस्तस्मात्, न हि धूमादिभिः प्रस्थपर्यन्तैरिन्द्रियानिन्द्रियाभ्यामगृहीतैरनुमानादीनां सम्भव इति मतिश्रुतयोरन्तर्भावः, 'किञ्चान्यदि'ति पक्षान्तरमाश्रयति, तदाह-'अप्रमाणान्येव वा' अनन्तरोदितानि अनुमानादीनि, कुत ? इति प्रश्नः, अत्र निर्वचनं-'मिथ्यादर्शने'त्यादि, मिथ्यादर्शनेन-तत्त्वार्थाश्रद्धानपूर्वेणैकनयरूपेण परिग्रहात्-स्वयमङ्गी