________________
૧૫૪
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
सूत्र-११ .
कस्मात् परोक्षं प्रमाणं भवतः, गुरुरपि तदेव स्पष्टयन्नाह'निमित्तापेक्षत्वादिति इन्द्रियमनोनिमित्तापेक्षत्वादिति, इन्द्रियमनोनिमित्तापेक्षत्वादिभिः प्रायः, एवमपि तत्त्वतोऽनवगच्छतः सामान्येन निमित्तापेक्षत्वादिति मन्यमानस्य मा भूदाशङ्का-नन्ववध्यादेरपि विशिष्टक्षयोपशमादिनिमित्तापेक्षाऽस्त्येवेति, तद्व्यवच्छेदायाह-'अपायसद्व्यतया मतिज्ञान'मिति अपायो-निश्चयः इहानन्तरवर्ती स...व्यमितिशोभनानि द्रव्याणि सम्यक्त्वदलिकानि, अपायश्च सद्र्व्याणि चापायसद्र्व्याणि तेषां भावः-स्वरूपादप्रच्युतिः तयेत्थम्भूतया मतिज्ञानं परोक्षम्, एतदुक्तं भवति-अपाय इन्द्रियानिन्द्रियजन्य इति इन्द्रियनिमित्ततया परोक्षं, ग्राह्यगृहीतृव्यतिरिक्तनिमित्तापेक्षत्वादितियावत्, न चैवमवध्यादेः ग्राह्यगृहीतृव्यतिरिक्तनिमित्तापेक्षाऽस्ति, अयमेव सूत्रकाराभिप्राय इति द्रढयन्नाह-'तदिन्द्रिये'त्यादि-तदिति-मतिज्ञानं इन्द्रियाणि-श्रोत्रादीनि अनिन्द्रियं मनस्तानि निमित्तं-कारणं यस्य ज्ञानस्य तत्तथेति वक्ष्यते सूत्रकारः, इदं च सद्रव्यविकलानामपि सम्यग्दृष्टीनां भवति श्रेणिकादीनां तथापि बहूनां सद्रव्यसमन्वितानामिति सामान्येनोक्तमपायसद्व्यतयेत्यलं प्रसङ्गेन । श्रुतज्ञानस्य परोक्षत्वे विशेषकारणमाह 'तत्पूर्वकत्वादिति मतिज्ञानपूर्वकत्वात् 'परोपदेशजत्वाच्च' परः-तीर्थकरादिस्तस्मादुपदेशस्ततो जायत इति परोपदेशजं तद्भावस्तस्माच्च श्रुतज्ञानं परोक्षमिति, अनेनोभयस्य निमित्तभूयस्त्वं ख्याप्यते, तथा चेदं क्वचिन्मनसि मतिज्ञानं श्रुतज्ञानं च स्वत एव भवति, यथा प्रत्येकबुद्धादीनां, क्वचित्त्वधिकं परोपदेशमपेक्षते, यथा अस्मदादीनामिति निमित्तभूयस्त्वं श्रुतज्ञानस्य । अत्र कश्चिदाह-इन्द्रियमनोनिमित्तं विज्ञानं परोक्षमित्येतदागमविरुद्धं भवतः, "इंदियपच्चक्खं नोइंदियपच्चक्खं चे"त्यादि (नन्दी सू.३) वचनप्रामाण्यात्, प्रतीतिविरुद्धं च, साक्षाद्रूपादिदर्शनादिति, अत्रोच्यते- नागमविरुद्धं, तत्र व्यवहारतः