________________
सूत्र-८ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૧૧૧ कषायवेदलेश्यासम्यक्त्वज्ञानदर्शनचारित्राहारोपयोगेषु त्रयोदशस्वनुयोगद्वारेषु यथासम्भवं सद्भूतप्ररूपणा कर्तव्या॥ सङ्ख्या। कियत्सम्यग्दर्शनं किं सङ्ख्येयमसङ्ख्येयमनन्तमिति । उच्यते । असङ्ख्येयानि सम्यग्दर्शनानि, सम्यग्दृष्टयस्त्वनन्ताः ॥ क्षेत्रम् । सम्यग्दर्शनं कियति क्षेत्रे । लोकस्यासङ्ख्येयभागे ॥ स्पर्शनम् । सम्यग्दर्शनेन किं स्पृष्टम् । लोकस्यासङ्ख्येयभागः । सम्यग्दृष्टिना तु सर्वलोक इति ॥
अत्राह-सम्यग्दृष्टिसम्यग्दर्शनयोः कः प्रतिविशेष इति । उच्यते । अपायसद्र्व्यतया सम्यग्दर्शनम् अपाय आभिनिबोधिकम् । तद्योगात्सम्यग्दर्शनम् । तत्केवलिनो नास्ति । तस्मान्न केवली सम्यग्दर्शनी, सम्यग्दृष्टिस्तु भवति ॥
कालः । सम्यग्दर्शनं कियन्तं कालमित्यत्रोच्यते । तदेकजीवेन नानाजीवैश्च परीक्ष्यम् । तद्यथा- एकजीवं प्रति जघन्येनान्तर्मुहूर्तं उत्कृष्टेन षट्षष्टिः सागरोपमानि साधिकानि । नानाजीवान् प्रति सर्वाद्धा ॥ अन्तरम् । सम्यग्दर्शनस्य को विरहकालः । एकं जीवं प्रति जघन्येनान्तर्मुहूर्त, उत्कृष्टेन उपार्धपुद्गलपरिवर्तः । नानाजीवान् प्रति नास्त्यन्तरम् ॥
भावः । सम्यग्दर्शनमौपशमिकादीनां भावानां कतमो भाव उच्यते । औदयिकपारिणामिकवर्जं त्रिषु भावेषु भवति ॥ अल्पबहुत्वम् । अत्राह सम्यग्दर्शनानां त्रिषु भावेषु वर्तमानानां किं तुल्यसङ्ख्यत्वमाहोस्विदल्पबहुत्वमस्तीति । उच्यते । सर्वस्तोकमौपशमिकम् । ततः क्षायिकमसङ्ख्येयगुणम् । ततोऽपि क्षायोपशमिकमसङ्ख्येयगुणम् । सम्यग्दृष्टयस्त्वनन्तगुणा इति ॥ एवं सर्वभावानां नामादिभिासं कृत्वा प्रमाणादिभिरधिगमः कार्यः ॥१-८॥
माध्यार्थ- सत्, संध्या, क्षेत्र, स्पर्शन, द, मंतर, भाव भने અલ્પબદુત્વ આ સભૂત પદ વગેરે આઠ અનુયોગદ્વારોથી સર્વ પદાર્થોનો વિવિધ રીતે વિસ્તારથી બોધ થાય છે.