________________
७० શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
सूत्र-६ 'विस्तराधिगमो भवति' एकैकस्य तत उद्घटनादपकृष्टस्य विस्तरेणलक्षणविधानाख्येन 'अधिगमः' परिच्छेदो भवति, एतदुक्तं भवति-यदा अधिगमः तदा न प्रमाणनयान्विरहय्य इति, प्रमाणसङ्ख्यानियमायाह'तत्र प्रमाण'मित्यादि 'तत्रे'ति वाक्योपन्यासार्थः, प्रमीयतेऽनेन तत्त्वमिति प्रमाणं, करणार्थाभिधानः प्रमाणशब्द इति, आत्मा सुखादिगुणकलापोपेतो मत्यादिना साधकतमेनावबुध्यते विषयमित्यर्थः, आह-यदि तेन करणभूतेनावबुध्यते आत्मेति तनवबोधक्रियाप्रमाणत्वे एवमवबोधात्मकमेवेत्यनिष्टावाप्तिः, नैतदेवं, स्वपर्यायस्यैव करणत्वात्, तस्य कथञ्चित् ततोऽव्यतिरेकात्, अन्वयव्यतिरेकयोगेन चित्रस्वभावत्वात्, तेन करणभूतेनात्माऽवबुध्यत इत्युपपन्नं, तथाहि-भिन्नः ग्राह्यग्रहणस्वभावः क्रियायाः कथञ्चित् अभिन्न आत्मा तत्त्वतः प्रमाणं, तदत्र शाब्दं न्यायमधिकृत्योपसर्जनीकृतक्रियावत्क्रियाभिधायी प्रमाणशब्दः, तदभेदाच्चात्मावबोध इति न कश्चिद्दोषः, एवं कर्तृसाधनादिपक्षेष्वपि प्रमिणोति-अवगच्छतीति प्रमाणमित्येवमादिष्वभिहितार्थानुसारतो भावना कार्या, मुख्यस्त्वयं प्रमाणशब्दः करणसाधन एवेति नात्र यत्नः, "द्विविध'मित्यनेन सङ्ख्यानियममाह-द्विविधमेव, न त्रिविधादि, द्वैविध्यमेव दर्शयति-'परोक्षं प्रत्यक्षं च वक्ष्यत' इति, पराणि-द्रव्येन्द्रियाणि मनश्च तन्निमित्तं ज्ञानं परोक्षमित्यादि, धूमादग्निज्ञानवत्, प्रत्यक्षं पुनरश्नात्यश्नुते वाऽर्थानित्यक्षः-आत्मा तस्याक्षेन्द्रियमनांसि अनपेक्ष्य यत् स्वत एवोपजायते तत् प्रत्यक्षम्-अवध्यादि, चशब्दः स्वगतानेकभेदसमुच्चयार्थः, एतच्च वक्ष्यत उपरिष्टात् “इत्थमुपन्यासे चैवमेवानयोर्भाव इति प्रयोजनं" 'चतुर्विधमित्येके' इति चतुर्विधं प्रत्यक्षानुमानोपमानागमभेदेन एके सूरयो मन्यन्ते, कथमित्याह-'नयवादान्तरेण' यतः केचिन्नैगमादयो नयाश्चतुर्विधमभ्युपयन्ति, अत एवानुयोगद्वारेषु चतुर्विधमुपन्यस्तमिति, एतच्च यथा अवस्थितं चातुर्विध्यं तथा भाष्यकार