________________
सूत्र-प
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
પ્રકારોથી જાણવા જોઇએ. તેમાં નામ આદિ ચાર વ્યાપક હોવાથી(=દરેક વસ્તુમાં ઘટતા હોવાથી) પ્રારંભમાં નામ આદિ ચાર ભેદોથી જીવાદિ તત્ત્વોનું નિરૂપણ કરતા ગ્રંથકાર કહે છે— તત્ત્વોના નિક્ષેપનો નિર્દેશ—
४८
नामस्थापनाद्रव्यभावतस्तन्यासः ॥१-५॥
સૂત્રાર્થ– નામ, સ્થાપના, દ્રવ્ય અને ભાવ એ ચાર દ્વારોવડે જીવાદિ तत्त्वोनी न्यास = निक्षेप थ शडे छे. (१-4)
भाष्यं— एभिर्नामादिभिश्चतुर्भिरनुयोगद्वारैस्तेषां जीवादीनां तत्त्वानां न्यासो भवति । विस्तरेण लक्षणतो विधानतश्चाधिगमार्थं न्यासो निक्षेप इत्यर्थः । तद्यथा-नामजीवः स्थापनाजीवो द्रव्यजीवो भावजीव इति । नाम, संज्ञाकर्म इत्यनर्थान्तरम् । चेतनावतोऽचेतनस्य वा द्रव्यस्य जीव इति नाम क्रियते स नामजीवः ॥ यः काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीवो देवताप्रतिकृतिवदिन्द्रो, रुद्रः, स्कन्दो, विष्णुरिति ॥ द्रव्यजीव इति गुणपर्यायवियुक्तः प्रज्ञास्थापितोऽनादिपारिणामिकभावयुक्तो जीव उच्यते । अथवा शून्योऽयं भङ्गः । यस्य ह्यजीवस्य सतो भव्यं जीवत्वं स्यात् स द्रव्यजीवः स्यात् । अनिष्टं चैतत् ॥ भावतो जीवा औपशमिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकभावयुक्ता उपयोगलक्षणाः संसारिणो मुक्ताश्च द्विविधा वक्ष्यन्ते । एवमजीवादिषु सर्वेष्वनुगन्तव्यम् ।
पर्यायान्तरेणापि नामद्रव्यं, स्थापनाद्रव्यं, द्रव्यद्रव्यं, भावतो द्रव्यमिति । यस्य जीवस्याजीवस्य वा नाम क्रियते द्रव्यमिति तन्नामद्रव्यम् । यत्काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते द्रव्यमिति तत् स्थापनाद्रव्यम् । देवताप्रतिकृतिवदिन्द्रो, रुद्रः, स्कन्दो, विष्णुरिति । द्रव्यद्रव्यं नाम गुणपर्यायवियुक्तं प्रज्ञास्थापितं धर्मादीनामन्यतमत् । केचिदप्याहुः ‘यद् द्रव्यतो द्रव्यं भवति तच्च पुद्गलद्रव्यमेवेति प्रत्येतव्यम् । 'अणवः