________________
.
१३
द्वितीयः प्रकाशः। नन्वस्त्वेवमशेषविषयसाक्षात्कारित्वलक्षणमतींद्रियप्रत्यक्षज्ञानं, तच्चाहत इति कथं ? कस्यचिदिति सर्वनाम्नः सामान्यज्ञापकादिति चेत्, सत्यं, प्रकृतानुमानात्सामान्यतः सर्वज्ञत्वसिद्धिः । अर्हत एतदिति पुनरनुमानांतरात् । तथा हि-अर्हन् सर्वज्ञो भवितुमर्हति निर्दोषत्वात् । यस्तु न सर्वज्ञो नासौ निर्दोषो, यथा रथ्यापुरुष इति केवलव्यतिरेकिलिंगकमनुमानं । __ आवरणरागादयो दोषास्तेभ्यो निष्क्रांतवं हि निर्दोषत्वं । तत्खलु: सर्वज्ञमंतरेण नोपपद्यते किंचिज्ज्ञस्यावरणादिदोषरहितत्वविरोधात् । ततो निर्दोषत्वमर्हति विद्यमानं सार्वइयं साधयत्येव । निर्दोषत्वं पुनरर्हत्परमेष्ठिनि युक्तिशास्त्राविरोधिवाक्त्वात्सिध्यति । युक्तिशास्त्राविरोधिवाक्त्वं च तदभिमतस्य मुक्तिसंसारतत्कारणत्वस्यानेकधर्मात्मकचेतनाचेतनात्मकतत्त्वस्य प्रमाणाबाधितत्वात्सुव्यवस्थितमेव ।
एवमपि सर्वज्ञत्वमर्हत एवेति कथं कपिलादीनामपि संभाव्यमानत्वादिति चेदुच्यते-कपिलादयो न सर्वज्ञाः सदोषत्वात् , सदोषत्वं तु तेषां न्यायागमविरुद्धभाषित्वात् । तच्च तदभिमतमुक्त्यादितत्त्वस्य सर्वथैकांतस्य च प्रमाणबाधितत्वात् । तदुक्तं स्वामिभिरेव
"स त्वमेवासि निर्दोषो युक्तिशास्त्राविरोधिवाक् । अविरोधो यदिष्टं ते प्रसिद्धेन न बाध्यते ॥ १ ॥ त्वन्मतामृतबाह्यानां सर्वथैकांतवादिनां ।
आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥ २॥" इति कारिकाद्वयेनैतयोरेव परात्माभिमततत्त्वबाधाबाधयोः समर्थनं प्रस्तुत्यः भावैकांते इत्युपक्रम्य स्यात्कारः सत्यलांच्छन इत्यंत आप्तमीमांसासंदर्भ इति कृतं विस्तरेण । तदेवमतीन्द्रियं केवलज्ञानमर्हतं एवेति सिद्धं । तद्वचनप्रामाण्याचावधिमनःपर्यययोरतीन्द्रिययोः सिद्धिरित्यतीन्द्रियप्रत्यक्षमनवा । ततः स्थितं सांव्यवहारिकं पारमार्थिक चेति द्विविध प्रत्यक्षमिति ।
. इति द्वितीयः प्रकाशः।