________________
१२
न्यायदीपिका |
ज्ञानस्य ततस्तस्याप्रत्यक्षत्वं कामं प्राप्नोतु, का नो हानिः ! एतेनाक्षेभ्यः परावृत्तं परोक्षमित्यपि प्रतिविहितं । अवैशद्यस्यैव परोक्षलक्षणत्वात् ।
स्यादेतत् ' अतींद्रियं प्रत्यक्षमस्तीत्यतिसाहसमसंभावितत्वात् । यद्य- संभावितमपि कल्प्येत गगनकुसुमादिकमपि कल्प्यं स्यात् । न स्याद्गगनकुसुमादिरप्रसिद्धत्वात् अतीन्द्रियप्रत्यक्षस्य तु प्रमाणसिद्धत्वात् । तथा हि — केवलज्ञानं तावत्किचिज्ज्ञानां कपिलसुगतादीनामसंभवदप्यर्हतः
- संभवत्येव । सर्वज्ञो हि स भगवान् ।
1
ननु सर्वज्ञत्वमेवाप्रसिद्धं किमुच्यते सर्वज्ञोऽर्हन्निति कचिदप्यप्रसिद्धस्य . विषयविशेषे व्यवस्थापयितुमशक्तेरिति चेन्न, सूक्ष्मांतरितदूरार्थाः कस्य. चित्प्रत्यक्षा अनुमेयत्वादग्न्यादिवदित्यनुमानात्सर्वज्ञत्वसिद्धेः । तदुक्तं स्वामिभिर्महाभाष्यस्यादावाप्तमीमांसाप्रस्तावे -
" सूक्ष्मांतरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥ १ ॥”
सूक्ष्माः स्वभावविप्रकृष्टाः : परमाण्वादयः, अंतरिताः कालविप्रकृष्टा - रामादयः, दूरार्था देशविप्रकृष्टा मेर्वादयः एते स्वभावकालदेशविप्रकृष्टाः पदार्था धर्मित्वेन विवक्षितास्तेषां कस्यचित्प्रत्यक्षत्वं साध्यं । इह प्रत्यक्षत्वं प्रत्यक्षज्ञानविषयत्वं । विषयिधर्मस्य विषयेऽप्युपचारोपपत्तेः । अनुमेयत्वादिति हेतु:, अन्यादिदृष्टांतः । अग्न्यादावनुमेयत्वं कस्य चित्प्रत्यक्षत्वेन • सहोपलब्धं परमाण्वादावपि कस्यचित्प्रत्यक्षत्वं साधयत्येव ।
न चाण्वादावनुमेयत्वमप्रसिद्धं, सर्वेषामप्यनुमेयमात्रे विवादाभावात्। अस्त्वेवं सूक्ष्मादीनां प्रत्यक्षत्व सिद्धिद्वारेण कस्यचिदशेषविषयं प्रत्यक्षज्ञानं । तत्पुनरतींद्रियमिति कथं ? इत्थं यदि तज्ज्ञानमैंद्रियिकं स्यादशेषविषयं न स्यात्, इंद्रियाणां 'स्वयोग्यविषय एव ज्ञानजनकत्वशक्तेः सूक्ष्मादीनां च तदयोग्यत्वादिति । तस्मा• त्सिद्धं तदशेषविषयं ज्ञानमतीन्द्रियमेवेति । अस्मिश्चार्थे सर्वेषां सर्वज्ञवादिनां न • विवादः । यद्वाह्या अप्याहुः "अदृष्टादयः कस्यचित्प्रत्यक्षाः प्रमेयत्वात् " इति ।