________________
धर्माधर्मलोकखानां तैस्तैः पुद्गलजंतुभिः। स्यात् संयोगविभागाभ्यां स्याद्वादे कस्य संशयः॥१७॥ अलोकपुष्करस्यापि त्रिसंवलिततां मुणेत् । तत्तस्संयोगविभागशक्तियुक्तत्वचैत्र्यतः॥१८॥ व्यावहारिककालस्य मुख्यकालस्य चास्तु सा । तत्तद्भावपरावर्त्त-स्वभावबहुलत्वतः॥१९॥ एककर्तृकयो: पूर्व-काले क्त्वाप्रत्यय: स्थितः। स एव नित्यानित्यत्वं ब्रूतेऽर्थे चिंतयास्तु न:॥२०॥ पीयमानं मदयति मध्वित्यादि द्विगं पदं। स्याद्वादभेरीभांकारै-मुखरीकुरुते दिशः॥२१॥ अनवस्थासंशीतिव्यतिकरसंकरविरोधमुख्या ये। दोषा: परैः प्रकटिता: स्याद्वादे ते तु न सजेयुः ॥२२॥ नित्यमनित्यं युगलं स्वतंत्रमित्यादयस्त्रयो दूष्याः। तुर्य: पक्ष: शबलद्धयी-मयो दूष्यते के न ॥२३॥ एकत्रोपाधिभेदेन बौद्धा द्वंद्वं क्षणे क्षणे। न विरुद्ध रूपरसस्थूलास्थूलादिधर्मवत् ॥२४॥ विनाश: पूर्वरूपेणो-त्पादो रूपेण केनचित्। द्रव्यरूपेण च स्थैर्य-मनेकांतस्य जीवितं ॥२५॥ द्रव्यक्षेत्रकालभावैः स्वैः सत्वमपरैः परं। भेदाभेदानित्यनित्यं पर्यायद्रव्यतो वदेत्॥२६॥ अंशापेक्षमनेकत्व-मेकत्वं त्वंश्यपेक्षया। प्रमाणनयभंग्या चानभिलाप्याभिलाप्यते ॥२७॥ विजातीयात्स्वजातीया
व्यावृत्तेरनुवृत्तितः। व्यक्तिजाती भणेन्मि) एकांते दूषणे क्षणात् ॥२८॥ नान्वयः सहिभेदित्वा-न्न भेदोऽन्वयवृत्तितः। मृद्भेदद्वयसंसर्ग-वृत्तिजात्यंतरं घटः॥२९॥ भागे सिंहो नरो भागे योऽर्थो भागद्यात्मकः। तमभागं विभागेन नरसिंहं प्रचक्षते ॥३०॥ नरसिंहरूपत्वान्न सिंहोनररूपतः। शब्दविज्ञानकार्याणां भेदाजात्यंतरं हि सः॥३१॥ घटमौलि (४) सुवर्णार्थी नाशोत्पादस्थितिष्वयं । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकं ॥३२॥ पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः। अगोरसव्रतो नोभे तस्मादस्तुत्रयात्मकं ॥३३॥ (अवोचाम च जिनस्तुतौ) जन्यत्वं जनकत्वं च क्षणस्यैकस्य जल्पता। बौध्देन युक्त्या मुक्तीश ! तवैवांगीकृतं मतं ॥३४॥ प्रमाणस्यापि
monalonnnnnn २१
o n