________________
PHARN0000000memes
लित-विस्तश- GRAT
(४५२) હવે શાસ્ત્રકાર, પ્રણિધાનપર્યત ચૈત્યવંદન, પછી આચાર્યાદિવંદના એમ દર્શાવી ત્યારબાદ પુરૂષ, યથોચિત કર્તવ્ય કરે છે. એમ દર્શાવી પછીથી આ વસ્તુની સિદ્ધિ માટે સર્બોધનો ધોધ વર્ષાવી ચૈત્યવંદન વ્યાખ્યાનનું માહાસ્ય બતલાવી ગ્રન્થની ‘વિરહ' શબ્દથી સમાપ્તિ કરે છે.
तदेवंविधशुभफलप्रणिधानपर्यन्तं चैत्यवन्दनं, तदन्वाचार्यादीनभिवन्द्य यथोचितं करोति कुर्वन्ति वा कुग्रहविरहेण । एतत्सिद्धये तु यतितव्यमादिकमणि, परिहर्त्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याणमित्राणि, न लङ्घनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः, भवितव्यमेतत्तन्त्रेण, प्रवर्तितव्यं दानादौ, कर्तव्योदारपूजा भगवतां, निरूपणीयः साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्रं, भावनीयं महायत्नेन, प्रवर्तितव्यं विधानतः, अवलम्बनीयं धैर्य, पर्यालोचनीया आयतिः, अवलोकनीयो मृत्युः, भवितव्यं परलोकप्रधानेन, सेवितव्यो गुरूजनः, कर्त्तव्यं योगपटदर्शनं, स्थापनीयं तद्रुपादि चेतसि, निरूपयितव्या धारणा, परिहर्त्तव्यो विक्षेपमार्गः, यतितव्यं योगसिद्धौ, कारयितव्या भगवत्प्रतिमाः, लेखनीयं भुवनेश्वरवचनं, कर्त्तव्यो मङ्गलजापः, प्रतिपत्तव्यं चतुःशरणं, गर्हितव्यानि दुष्कृतानि, अनुमोदनीयं कुशलं, पूजनीया मन्त्रदेवताः, श्रोतव्यानि, सच्चेष्टितानि, भावनीयमौदार्य, वर्त्तितव्यमुत्तमझातेन, एवंभूतस्येह प्रवृत्तिः सा सर्वैव साध्वी, मार्गानुसारी ह्ययं नियमादपुनर्बन्धकादिः, तदन्यस्यैवंभूतगुणसम्पदोऽभावात्, अत आदित आरभ्यास्य प्रवृत्तिः सत्प्रवृत्तिरेव नैगमानुसारेण चित्रापि प्रस्थकप्रवृत्तिकल्पा, तदेवदधिकृत्याहः-'कुठारादिप्रवृत्तिरपि रूपनिर्माणप्रवृत्तिरेव' तद्वदादिधार्मिकस्य धर्मे कात्स्न्र्येन तद्गामिनी न तब्दाधिनीति हार्दाः ॥ तत्त्वाविरोधकं हृदयमस्य, ततः-समन्तभद्रता, तन्मूलत्वात्सकलचेष्टितस्य एवमतोऽपि विनिर्गततत्तद्दर्शनानुसारतः सर्वमिह योज्यं, सप्तमण्डितप्रबोधदर्शनादि, + न ह्येवं प्रवर्त्तमानो नेष्टसाधक इति भग्नोऽप्येतयत्नलिङ्गोऽपुनर्बंधक इति नानिवृत्तिधिकारायां प्रकृतावेवंभूत इति कापिलाः, न अनवाप्तभवविपाक इति च सौगताः, अपुनर्बंधकास्त्वेवंभूता इति जैनाः, तच्छ्रोतव्यमेतदादरेण, परिभावनीयं सूक्ष्म बुद्ध्या, शुष्केक्षुचर्वणप्रायमविज्ञातार्थमध्ययनं, रसतुल्यो ह्यत्रार्थः, स खलु प्रीणयत्यन्तरात्मानं, ततः संवेगादिसिद्धेः, अन्यथात्वदर्शनात्, तदर्थ चैष प्रयास इति न प्रारब्धप्रतिकूलमासेवनीयं, प्रकृतिसुन्दरं चिन्तामणिरत्नकल्पं संवेगकार्य चैतदिति महाकल्याणविरोधि न चिन्तनीयं, चिन्तामणिरत्नेऽपि सम्यग्ज्ञानगुण एव श्रद्धाधतिशयभावतोऽविधिविरहेण महाकल्याणसिद्धिरित्यलं प्रसङ्गेन ॥
आचार्यहरिभद्रेण दृब्धा सन्यायसङ्गता । चैत्यवन्दनसूत्रस्य वृत्तिललितविस्तरा ॥१॥ य एनां भावयत्युचैर्मध्यस्थेनान्तरात्मनात । सद्वन्दनां सुबीजं वा, नियमादधिगच्छति ॥ २ ॥ पराभिप्रायमज्ञात्वा, तत्कृतस्य न वस्तुनः । गुणदोषौ सतां वाच्यौ प्रश्न एव तु युज्यते ॥ ३ ॥ प्रष्टव्योऽन्यः परीक्षार्थमात्मनो वा परस्य च । ज्ञानस्य वाऽभिवृद्ध्यर्थं, त्यागार्थं संशयस्य च ॥ ४ ॥ कृत्वा यदर्जितं पुण्यं, मयैनां शुभभावतः । तेनास्तु सर्वसत्त्वानों मात्सर्यविरहः परः ॥ ५ ॥
इति ललितविस्तरा नाम चैत्यवन्दनवृत्तिः समाप्ता ॥ .
POOOOOOOOOOOOOOOOOOO
साफल्यं,
+ અહીં આદિ પદથી “સુખસમુદ્રતીર્ણદર્શન' ઈત્યાદિ ઉપમાઓ સમજવી. સુખસમુદ્રતીર્ણદર્શન-નિદ્રામાં સુતેલો કોઈ માણસ સમુદ્ર તરી ગયા પછી જાગ્રત થાય ત્યારે જેટલો વિસ્મય પામે તેટલો વિસ્મય સમ્યગ્દર્શનાદિની પ્રાપ્તિ વખતે પૂર્વે કરેલી ધર્મક્રિયાઓને જાણી સમદ્રષ્ટિને થાય છે.
વાતા આનુવાદ - આ
રાશિ મ. સા.