________________
लित-विता - AGRMEEAR Afc
(४२८ સાક્ષાત સ્ત્રીનું ગ્રહણ. તે તે સ્ત્રીઓ પણ તેજ ભવમાં (અન્યયૂથિક-જૈનેતર મતની કે બૌટિકનીજૈનદિગંબર મતની માફક સ્ત્રીઓની મોક્ષની અયોગ્યતા નહિ હોઈ) સંસારનો ક્ષય-મોક્ષ થાય છે એમ જણાવવા ખાતર છે.
હવે શાસ્ત્રકાર, યાપનીયતંત્રની સાક્ષી (પાઠ-પુરાવો) આપી “સ્ત્રીમુક્તિ' વિષયક વિષયને ખૂબ સચોટ -४७५२४स्त पुष्ट ४३ छे.
वचः यथोक्तं 'यापनीयतन्त्रे-णो खलु इत्थि अजीवो णयावि अभव्वा णयावि दंसणविरोहिणी णो अभाणुसा णो अणारिउप्पत्ती णो असंखेज्जाउया णो अइकूरमई णो ण उवसन्तमोहा णो ण सुद्धाचारा, णो असुद्धबोंदी णो ववसायवज्जिया णो अपुवकरणविरोहिणी, णो णवगुठाणरहिया णो अजोगा लद्वीए णो अकल्लाणभायणं ति कहं न उत्तमधम्मसाहिगत्ति ।
तत्र 'न खल्विति' नैव स्त्री अजीवो वर्तते, किन्तु जीव एव, जीवस्य चोत्तमधर्मसाधकत्वाऽविरोधस्तथा दर्शनात्, न जीवोऽपि सर्व उत्तमधर्मसाधको भवति अभव्येन व्यभिचारात्, तद्व्यपोहायाह-'न चाप्यभव्या' जातिप्रतिषेधोऽयं, यद्यपि काचिदभव्या तथापि सर्वैवाभव्या न भवति, संसारनिर्वेदनिर्वाणधम्मद्विषशुश्रुषादि दर्शनात्, भव्योऽपि कश्चिद्दर्शनविरोधी यो न सेत्स्यति तन्निरासायाह 'नोदर्शनविरोधिनी' दर्शनमिह सम्यग्दर्शनं परिगृह्यते तत्त्वार्थश्रद्धानरूपं न तद्विरोधिन्येव आस्तिक्यादिदर्शनात्, दर्शनाविरोधिन्यपि अमानुषी नेष्यत एव तत्प्रतिषेधायाह-'नो अमानुषी' मनुष्यजातौ भावात्, विशिष्टकरचरणोरुग्रीवाद्यवयवसनिवेशदर्शनात्, मानुष्यप्यनार्योत्पत्तिरनिष्टा तदपनोदायाह-'नो अनार्योत्पत्तिः' आर्येष्वप्युत्पत्तेः, तथा दर्शनात्, आर्योत्पत्तिरप्यसंख्येयायुर्नाधिकृतसाधनायेत्येतदधिकृत्याह-'नोअसङ्ख्येयायुः' सर्वेव, सङ्ख्येयायुर्युक्ताया अपि भावात्, तथा दर्शनात्, सङ्ख्येयायुरपि अतिक्रूरमतिः प्रतिषिद्धा तन्निराचिकीर्षयाऽह-'नातिक्रूरमतिः' सप्तमनरकायुर्निबन्धनरौद्रध्यानाभावात्, तद्वत्प्रकृष्टशुभध्यानाभाव इति चेत्, न तेन तस्य प्रतिबन्धाभावात्, तत्फलवदितरफलभावेनानिष्टप्रसङ्गात्, अक्रूरमतिरपि रतिलालसाऽसुन्दरैव तदपोहायाह-'नो न उपशान्तमोहा' कचित्-उपशान्तमोहाऽपि सम्भवति, तथादर्शनात्, उपशान्तमोहाऽप्यशुद्धाचारा गर्हिता तत्प्रतिक्षेपायाह-'नो न शुद्धाचारा' कदाचित् शुद्धाचाराऽपि भवति, औचित्येन परोपकरणार्जनाद्याचारदर्शनात् शुद्धाचाराप्यशुद्धबोन्दिरसाध्वी तदपनोदायाह'नो अशुद्धबोन्दिः' काचित शुद्धतनुरपि भवति प्राक्कर्मानुवेधतः संसञ्जनायदर्शनात्, कक्षास्तनादिदेशेषु, शुद्धबोन्दिरपि व्यवसायवर्जिता निन्दितैव तन्निरासायाह-'नो व्यवसायवर्जिता' काचित्परलोकव्यवसायिनी, शास्त्रात्तत्प्रवृत्तिदर्शनात्, सव्यवसायाऽप्यपूर्वकरणविरोधिन्येव तत्प्रतिषेधमाह-'नो अपूर्वकरणविरोधिनी' अपूर्वकरणसम्भवस्य स्त्रीजातावपि प्रतिपादितत्वात्, अपूर्वकरणवत्यपि नवगुणस्थानरहिता नेष्टसिद्धये (इति) इष्टसिद्धयर्थमाह-'नो नवगुणस्थानरहिता' तत्सम्भवस्य तस्याः प्रतिपादितत्वात्, नवगुणस्थानसङ्गताऽपि लब्धयोग्या अकारणमधिकृतविधेरित्येतत्प्रतिक्षेपायाह-'नायोग्या लब्धेः' आमोषध्यादिरूपायाः कालौचित्येनेदानीमपि दर्शनात्, कथं द्वादशाङ्गप्रतिषेधः ? तथाविधविग्रहे ततो दोषात्, श्रेणिपरिणतौ तु कालगर्भवद्भावतो भावोऽविरूद्ध एव, लब्धियोग्याऽप्यकल्याणभाजनोपघातानाभिलषितार्थसाधनायालमित्यत आह-'नाकल्याणभाजनं' तीर्थकरजननात्, नातःपरं कल्याणमस्ति, यत एवमतः कथं नोत्तमधर्मसाधिकेति, उत्तमधर्मसाधिकैव।
૧ સર્વથા સચેલ અચેલ પક્ષ ભિન્ન મધ્યસ્થ જૈન સંઘ વિશેષ.
00000000000
परसारम.सा
ગજરાતી અનુવાજી કે