________________
श्रीप्रमेयरत्नकोषः ।
माभातीति न कश्चित्ताभ्यां व्यतिरिक्तः संबन्धोऽस्तीत्युपरम्यते कार्यकारणभङ्गः ॥ ११ ॥
[xIH
[ अथ सर्वगतात्मवादः ]
5 अथ वैशेषिकैः सर्वगतत्वमात्मनः साध्यते प्रमाणतः । तथाहि । बुद्ध्यधिकरणं द्रव्यं विभु, नित्यत्वे सत्यस्मदाद्यु। पलभ्यमान गुणाधिष्ठानत्वात् । यद्यन्नित्यत्वे सत्यस्मदाद्युपलभ्यमान गुणाधिष्ठानं, तत्तद्विभु, यथाकाशम् । तथा व बुद्ध्यधिकरणं द्रव्यम् । तस्माद्विभु । न च बुद्धेर्गुणत्वासि10 द्धेर्हेतु विशेषणासिद्ध्यां हेतोरसिद्धिरभिधातुं शक्या, बुद्धेर्गुणत्वस्यानुमानात्सिद्धेः । तथाहि । गुणो बुद्धिः, प्रतिषिध्यमानद्रव्यकर्मभावे सति सत्तासंबन्धित्वात् । यो यः प्रतिषिध्यमानद्रव्यकर्मभावे सति सत्तासंबन्धी स स गुणः, यथा रूपादिः । तथा च बुद्धिः । तस्माद्गुणः । न चायम15 सिद्धों हेतुः । तथाहि । एकद्रव्या बुद्धि:, सामान्यविशेषad सत्येकेन्द्रियप्रत्यक्षत्वात् । यद्यत्सामान्यविशेषवत्त्वे सत्ये केन्द्रियप्रत्यक्षं तत्तदेकद्रव्यं यथा रूपादि । तथा च बुद्धिः । तस्मादेकद्रव्या । न च " एकेन्द्रियप्रत्यक्षत्वात्” इत्युच्यमाने " आत्मना व्यभिचारः ", तस्यैकेन्द्रियप्रत्यक्षत्वे 20 विवादात् । नापि वायुना, तत्रापि तत्प्रत्यक्षत्वस्य विवादास्पदत्वात् । तथापि रूपत्वादिना व्यभिचारः, तन्निवृत्त्यर्थं " सामान्यविशेषवत्त्वे सति" इति विशेषणोपादानम् । न च रूपस्यान्तःकरणग्राह्यतया द्वीन्द्रियग्राह्यता चक्षुरिन्द्रियस्यैव "चक्षुषा रूपं पश्यामि” इति व्यपदेश हेतोस्तत्र 25 करणत्वसिद्धेः, मनसस्त्वान्तरार्थप्रतिपत्तावेवासाधारणत्वात् । अथवैकद्रव्या बुद्धि:, सामान्यविशेषवत्त्वे गुणवत्त्वे च सत्यचाक्षुषप्रत्यक्षत्वात् शब्दवत् । तथा न कर्म
"
1 A बुद्धेर्गुणलासिद्धो हे 2 A बुद्धिगुणत्वस्या 3 A प्रत्यक्षत्वविवादात्
४६
"