________________
श्रीप्रमेयरनकोषः।
त्पाद्य पश्चादसौ संबन्धोऽनेन जन्यते; तदापि स्वकार्यकाल एव विनष्टत्वात्तदुत्तरभाविकार्यकरणसंबन्धजननं कुतः स्यादिति कथं कार्यकारणयोरसहभावित्वात्संबन्धस्य द्विष्ठता । नाप्यक्षणिकरूपयोः कार्यकारणयोः प्रागप्रतिपन्नतदाधारतयोर्न पश्चादपि संबन्धाधारता युक्तिमती, अवि- 5 चलितरूपत्वात् । किं च । असौ संबन्धो वस्तुरूपो वा, अवस्तुरूपो वा; वस्तुरूपोऽपि प्रत्यक्षप्रमाणपरिच्छेद्यो वा भवेत् , अनुमानसंवित्संवेद्यो वा । न तावत्प्रत्यक्षं ताभ्यां कार्यकारणाभ्यां भिन्नस्वभावं संबन्धं गृह्णन्निश्चीयते । नाप्यनुमानेन संबन्धो निर्णीयते, यतोऽनुमानं लिङ्गबले-10 नोदयमासादयति । न च संबन्धस्य किंचिल्लिङ्गमवलोक्यते । भवतु वा लिङ्गं संबन्धस्य, तथापि तयोः संबन्धः केन प्रमाणेन निणीयते, प्रत्यक्षेण, अनुमानेन वा । न तावत्प्रत्यक्षेण । कार्यकारणलक्षणसंबन्धग्रहणाप्रवणेन संबन्धनिश्चयः, यतो द्विष्ठसंबन्धसंवित्तिः, नैकरूपप्रवेदनात् । 15 अनुमानेनापि लिङ्गसंबन्धयोः संबन्धनिश्चयः, किं तेनैवा. नुमानेन, अनुमानान्तरेण वेति विकल्पद्वयम् । यदि तेनैव, तदा स्फुट एवेतरेतराश्रयलक्षणो दोषो भवन्तमनुबध्नाति । तथाहि । यावदनुमानं न प्रवृत्तं, न तावत्संबन्धावधारणं; यावत्संबन्धो नावधारितः, न तावदनुमानप्रवृत्तिः । अनु-20 मानान्तरेण चेत्, अनवस्थाप्रसङ्गः । तथाहि । अनुमानं लिङ्गग्रहणपुरःसरमेव प्रवर्तते, तस्यापि लिङ्गस्यानुमानान्तरेण संबन्धो निर्णेयः, तदपि लिङ्गं निर्णयपूर्वकमभिधेयमित्याद्यावर्तनादनवस्था धावन्ती निर्लजकुट्टिनीवदुर्निवारा स्यात् । अथावस्तुरूपः, ताकाशकुशेशयवत्प्रमा- 25 णाविषयत्वादविद्यमान एव । अथाभिन्नस्वभावोऽसावुच्यते, तर्हि कथं कार्यकारणाभ्यामेव कारणबुद्धिर्भवतीति सुगतमतानुसारिभिरभिधीयमानमिदं वचो भवतः पौरुष