________________
श्रीप्रमेयरत्नकोषः।
तत इति
स्था
संबन्धमा वर्तमान पक्तिभ्या
माणः किं तेनैवानुमानेन गृह्यते, उतानुमानान्तरेण वेति द्वयी गतिः । तत्र यदि तेनैवानुमानेनायं पक्षोऽङ्गीक्रियते, तदेतरेतराश्रयदोषः, यतो न यावदनुमानं प्रवृत्तं न तावत्संबन्धग्रहः, न यावत्संबन्धो गृहीतस्तावदनुमानं न प्रवः तेत इति स्फुटमेवेतरेतराश्रयत्वमिति । अथानुमानान्तरे- 5 णेति, तीनवस्था । तथाहि । अपरेणानुमानेन संबन्धो ग्रहीतव्यः, तदप्यनुमानं संबन्धग्रहपूर्वकं भवति, तस्यापि संबन्धोऽपरेण ग्रहीतव्य इत्यनवस्था प्रवर्तमाना वर्षशतेनापि न निष्ठां प्राप्नोति । किं च । तत्सामान्य व्यक्तिभ्यो भिन्नं वा स्यात् , अभिन्नं वेति विकल्पद्वयम् । तत्र यद्य-10 भिन्नं, तर्हि व्यक्तिभ्यः सामान्यमभिन्नं सामान्याच्च व्यक्तय इति सामान्यं वा स्याब्यक्तयो वा न द्वितयम् । तथा तत्सामान्यमभिन्नं सत्किं व्यक्तिभिः सार्धं समुत्पद्यते, व्यक्त्यन्तराद्वा समागच्छति पूर्वमेव वा तद्देशे समासीत् । तत्र यद्याद्यः पक्षः, तर्हि व्यक्तिवदनित्यत्वप्रसङ्गः। अथ 15 द्वितीयः, तर्हि सक्रियत्वं स्यात् । अथ तृतीयः, तर्हि व्यक्तिशून्ये देशेऽवस्थानं प्राप्नोति । न चेष्यते । तथाहि व्यक्तिविनाशे किं सहैव विनश्यति, अथ व्यक्त्यन्तरं याति, उत तद्देश एव तिष्ठति । दूषणानि प्रागुक्तान्येव । तथा
20 व्यक्तिजन्मन्यजाता चेदागता नाश्रयान्तरात् । प्रागासीन्न च तद्देशे सा तया संगता कथम् ॥१॥ व्यक्तिनाशे न चेन्नष्टा गता व्यक्त्यन्तरं न च । तच्छून्ये न स्थिता देशे सा जातिः क्वेति कथ्यताम् ॥२॥
अथ भिन्नं, तर्हि तव्यावृत्ताकारं वा स्यात् , अनुगता- 25 कारं वेति विकल्पद्वयम् । तत्र यदि व्यावृत्ताकारं, तर्हि व्यक्तिरूपतैव तस्य स्यात्, न किंचित्सामान्यम् । अथानुगताकारं; सोऽनुगमः स्वरूपे, पररूपे वेति विकल्पौ।
चोक्तम् ।