________________
७०
श्रीप्रमेयरत्नकोषः। कार्यगम्यत्वात्कारणशक्तीनाम् । तन्न “ योग्ययोः" इति वाच्यम् । अथायोग्ययोः तन्न युक्तम् । न ह्ययोग्ययोः साध्यसाधनयोरिव संयोगः संभवतीत्युपरम्यते ॥ इति वादिमीनानायः॥९॥
[x.] [अथ शाब्दप्रमाणनिराकरणम् ॥ ] यन्निविषयं तत्समस्तमेवाप्रमाणं, यथा मरीचिकासु जलविज्ञानम् । निर्विषयं चेदं शाब्दविज्ञानम् । न चायमसिद्धो हेतुः, यतोऽस्य विषयः परिकल्प्यमानः स्वलक्षणं वा 10 स्यात्, सामान्यं वा । न तावत्स्वलक्षणं, तस्य संकेतवशेन विषयत्वापत्तेः; स च विविक्तक्षणक्षयिपरमाणुलक्षणे कर्तु. मशक्यः । तथाहि । प्रथमे क्षणे स्वलक्षणदर्शनं', द्वितीयक्षणे संकेतलक्षणाध्यवसायः, तृतीयक्षणे संकेतः कर्तव्यः,
तस्मिंश्च स्वलक्षणस्य क्षणक्षयिकत्वेन क्षीणत्वात्संकेतकरणा15 नुपपत्तेः । नापि सामान्यं, तस्य स्वत एवाविद्यमानत्वात् ।
तथाहि । यत्प्रमाणगोचरचारितां नाचरति, न तत्सद्व्यवहृतिपथमवतरति, यथाकाशकुशेशयम् । नाचरति च प्रमाणगोचरचारितां सामान्यमिति । न चायमसिद्धो हेतुः, यतस्तत्सामान्यं प्रत्यक्षप्रमाणपरिच्छेद्यं वा स्यात्, अनुमान20 संवित्संवेद्यं वा। तत्र न तावदाद्यः पक्षःकक्षीकरणीयः, यतः
सकलव्यक्तिगतं सामान्यं तत्प्रत्यक्षीकरणे समस्तव्यक्तिप्रत्यक्षत्वेन सर्वज्ञत्वापत्तिः स्यात्। न चेष्यते । नापि द्वितीयः, यतोऽनुमानं प्रतिबद्धलिङ्गबलेनोदीयमानं प्रमाणतामासादयति । स च संबन्धः किं प्रत्यक्षेण गृह्यते, अनु25 मानेन वा।तत्र न तावत्सामान्यरूपावधारणानिपुणेन प्रत्य
क्षेण संबन्धग्रहणं युज्यते, यतः द्विष्ठसंबन्धसंवित्ति करूपप्रवेदना । नाप्यनुमानेन, यतोऽनुमानेन संबन्धो गृह्य1 B स्खलक्षणं दर्शनं