________________
२६
श्रीप्रमेयरत्नकोषः ।
5
नियतं तत्तेन व्याप्तं यद्येन व्याप्तं तत्तस्य गमकं नान्यस्य " इति वचनात् । अथैतद्भयादेवाद्यः समाश्रीयते; तदा तेन साध्येन सह बन्धः साधनस्य किं सामान्यरूपेण, विशेषरूपेण वा । न तावद्विशेषरूपेण, न हि सामान्यरूपसाध5 नस्य विशेषरूपेण साध्येन सह संबन्धो भवति, सामान्यरूपयोः संबन्धाभ्युपगमात् । इतरथा सामान्यरूपस्य विशेषरूपेण संबन्धाभ्युपगमे न साधनात्सिद्धिसौधं साध्यमध्यासीत् । तथाहि । साधनं साध्यगमकत्वेनेष्यमाणं गृहीतव्याप्तिकं वा भवेत्, अगृहीतव्याप्तिकं वा स्यात् । 10 यदि “ अगृहीतव्याप्तिकं” इत्युच्यते तन्न चतुरचेतसश्चमत्कारि, तथाभूतात्तस्मात्साध्यावगतेरभावात् । दासीचक्रीवतोरिव नापि गृहीतव्याप्तिकं, यतो व्याप्तिरप्यन्वयमुखेन वा स्यात्, व्यतिरेकमुखेन वा, "व्याप्तिर्व्यापकस्य तत्र भाव एव व्याप्यस्य वा तत्रैव भावः” इति वचना15 द्विधाभिधीयमानत्वात् । द्विधापि किमेकदेशरूपा, सर्वोपसंहाररूपा वा । न तावत्सर्वोपसंहाररूपा । या हि पक्षसपक्षविभागमकृत्वा सामान्येन हेतोर्व्याप्तिः प्रदर्श्यते, सा सर्वोपसंहारव्याप्तिः, सा च विशेषरूपसाध्यसामान्यरूपसाधनयोः संबन्धासंभवेन संभावयितुमपि न युज्यते, किं 20 पुनर्दर्शयितुम् । अथैकदेशरूपा व्याप्तिः, न सर्वोपसंहाररूपा, येनेदं दूषणमनुषज्यते; तदपि न, तस्या असंभवात् । संभवे वा यदि नाम निदर्शने साधने सति साध्यमुपलब्धं, किमेतावता तत्र तस्य नियतत्वमवगम्यते यावन्न यत्र यत्र साधनं तत्र तत्रे साध्यम् । तदभावे न क्वचिदपि साधन25 मुपलभ्यत इत्येवंरूपेण सर्वविषयिणी व्याप्तिरवगतोपदशिता च । तन्नैकदेशरूपापि । तदेवं प्रत्येकमुभयरूपाया अन्वयमुखेन व्यतिरेकमुखेन वा व्याप्तेर्विचार्यमाणाया
1 A चतुरचेतश्चम० 2 A B omit