________________
श्रीप्रमेयरत्नकोषः ।
२५ यतोऽभाणि प्रामाणिकैर्विदुषां वाच्यो हेतुरेव हि केवलः । अतोऽस्माभिस्तस्यैव संबन्धिस्वरूपं विशेषतो निरूप्यते । तथाहि । साध्यं हि धर्मिणि साधनेन साध्यमानं किं सामान्यरूपेण साध्यते, विशेषरूपेण वा । तत्र न तावदाद्यः पक्षः, यतस्तेन प्रतिबद्धेन, अप्रतिबद्धेन वा । यद्यप्र- 5 तिबद्धेन साध्यते, तदा सर्व सर्वतोऽपि स्यात् , अतिप्रसङ्गात् । ततो यथा “गौरयं" इत्युक्ते विषाणी बाहुलेयादिः प्रतीतिपथमवितथमवतरति, तथा काष्ठात्रिविष्टपप्रभृतीन्यपि प्रतीयुः । तथाहि । यो यो गोशब्दाभिधेयः स स विषाणी, यथा शबलशाबलेयादिः। गोशब्दाभिधेयाश्च मरी-10 चिविलोचनवचनकुलिशककुप्ययः स्वर्गभूतधान्यादय इति । न चैतद्भवति, केनाप्यनिष्टत्वात् । तत् “अप्रतिबद्धेन साध्यते" इत्यसाधीयः । अथ "प्रतिबद्धेन" इति भण्यते । तेनापि किं वाच्यवाचकलक्षणसंबन्धप्रतिबद्धेन, तादात्म्यतदुत्पत्तिसंबन्धप्रतिबद्धेन वा । यद्याद्यः “प्रतिबन्धप्रति-15 बद्धेन" इति पक्षः, स न क्षोदक्षमः, तस्याघटमानत्वात् । तथाहि । वाच्यवाचकयोरिदं स्वरूपम् । वक्तीति वाचकः, उच्यत इति वाच्यम् । एतच्चान न युज्यते । साधनेन हि साध्यं धर्मिणि साध्यते, न चोच्यते "साध्यत इति साध्यं, साधयतीति साधकं” इति कृत्वा तन्न प्रथमो विकल्पः। 20 नापि तादात्म्यसंबन्धसंबद्धेन, साध्यसाधनयोर्भेदेनाभ्युपगमात्तादात्म्यस्याभावात् । अथ "तदुत्पत्तिलक्षणसंबन्धप्रतिबद्धन साधनेन" इत्युच्यते, तदा तदुत्पत्तौ किं साधनं साध्यादुत्पद्यते, साधनाद्वा साध्यम् । न तावत्साधनासाध्यं समुत्पद्यते । तथाहि साध्यं साधननियतं स्यात्, न 25 साधनं साध्यनियतम् । ततः साधनात्कथं साध्यावगतिभवेत्, “यदनुवादेन यद्विधीयते तत्तत्र नियतं, यद्यत्र
1 A शाबलेयादिः 2 A यद्याद्य